________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
तात्पर्यदीपिकासमेता शिवमाहात्म्यखण्डे जज्ञिर इति 'अनुपसर्गाज्जः' इत्यात्मनेपदम् ।। ५३ ॥ १४ ॥५५॥५६॥ इति श्रीमत्काशीविलासक्रियाशक्तिपरमभक्तश्रीमत्र्यम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्रीमतसंहितातात्पर्यदीपिकायां शिवमाहात्म्पखण्ड न. न्दीश्वरविष्णुसंवादेनेश्वरप्रतिपादनं नाम
तृतीयोऽध्यायः ॥ ३॥
चतुर्थोऽध्यायः।
नैमिषीया ऊचुः
भगवन्देवदेवस्य नीलकण्ठस्य शूलिनः ।
ब्रूहि पूजाविधि विद्वन्कृपया मुक्तिमुक्तिदम् ॥ १॥ पूज्यस्वरूपापरिज्ञाने पूजाया मन्दफलत्वादध्यायद्वपेन मुनयस्तत्स्वरूपं ज्ञात्वा पूजां जिज्ञासन्ते-भगवन्देवदेवस्येति ॥ १॥
सूत उवाच---- वक्ष्ये पूजाविधि विप्राः शृणुध्वं भुक्तिमुक्तिदम् ।
श्रुतिस्मृत्युदितं कर्म कृत्वा श्रद्धापुरःसरम् ॥२॥ तनित्यनैमित्तिकस्यैव पूजाधिकार इत्याह-श्रुतिस्मृतीति । श्रद्धेति । तासु__ "अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्मेत्य नो इह" इति ॥ २॥ स्नाला शुद्धे समे देशे गोमयेनोपलेपिते।
समासीनः सदा मौनी निश्चलोदङ्मुखः सुखी ॥३॥ नात्वेति । स्मार्तकर्माङ्गत्वेन वारुणं स्नानं कृतवताऽपि शिवपूजाङ्गत्वेन भस्मनानमपि कार्यमित्यर्थः । अथ वा 'ष्णा शौचे' इत्यतः स्नात्वेति पदं निष्पनम् । अतः पञ्चसु शुद्धीविधायेत्यर्थः । आह सोमशंभुः
१ ख. ज्यस्य स्वी
For Private And Personal Use Only