________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ३]
सूतसंहिता ।
'व्यक्तः स तैर्विभावाद्यैः स्थापी भावो रसः स्मृतः' इति ।
एवं परतत्त्वस्वरूपविषयो भावोऽपि तत्कार्येणाभिनयेन विशदीभूतः प्रकर्षेण दृश्यत इति । प्रदर्शयत्रिति 'लक्षणहेत्वोः क्रियायाः' इति हेतौ शतृप्रत्ययः । नर्तनं द्रष्टुमिच्छयेति संबन्धः ॥ ५० ॥ ५१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तत्र सर्वे सुरा विप्राः श्रद्धया द्रष्टुमिच्छया । अवर्तन्ताखिलेशस्य नर्तनं भुक्तिमुक्तिदम् ॥ ५२ ॥
३९
परापरपुरुषार्थैकसाधनत्वे नेच्छा न पुनरौत्सुक्यमात्रेणेत्याह - श्रद्धयेति । भुक्तिमुक्तिदमिति । भोगमोक्षसाधनोपदेशाय ह्ययमध्याय आदावेदावतारितः ॥ ५२ ॥
भवन्तोऽपि महादेवप्रसादाय मुनीश्वराः । पूजयध्वं महाभक्त्या महादेवं घृणानिधिम् ॥ ५३ ॥ इति श्रुत्वा मुनिश्रेष्ठा नैमिषीयास्तपोधनाः । प्रणम्य दण्डवडूमौ सूतमात्महितप्रदम् ॥ ५४ ॥ जज्ञिरे देवदेवोऽसौ शंकरस्त्वम्बिकापतिः । पूजनीय इति श्रीमान्सर्वदा सर्वजन्तुभिः ॥ ५५ ॥ तेषां शिष्याः प्रशिष्याश्च तथाऽन्ये सर्वजन्तवः । महादेवः सदा सर्वेः पूज्य इत्येव जज्ञिरे ॥ ५६ ॥ इति श्रीस्कन्दपुराणे श्रीसूतसंहितायां शिवमाहात्म्यखण्डे नन्दीश्वरविष्णुसंवादेनेश्वरप्रतिपादनं नाम तृतीयोऽध्यायः ॥ ३ ॥
For Private And Personal Use Only
भवन्तोऽपीति । पूजयध्वमितिमध्यमपुरुषाक्षिप्तस्य युष्मच्छब्दस्यापि - नासंबन्धः । भवन्त इति शत्रन्तम् । यूयमपि देववद्भक्तिपरवशाः सन्तः पूजयध्वमित्यर्थः । पूज्य इत्येव जज्ञिर इति फलाभिसंबन्धविरह एवकारार्थः । तादृशी हि पूजा सात्त्विकी । उक्तं हि गीतामु
'अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्विकः' इति ।
१ ख तत्रेति ।