________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता शिवमाहात्म्यखण्डे रक्ष रक्ष महादेव क्षमस्व करुणालय ।
भक्तचित्तसमासीन ब्रह्मविष्णुशिवात्मक ॥४८॥ रक्ष रक्षेति । अहमेव जगत्कर्तेत्यादि यदुक्तं यच्चान्यैस्तथा प्रतिपनं तमपराधं क्षमस्व तनिबन्धनादनाच रक्ष । यतस्त्वं करुणालय इत्यर्थः । "हृदि अपमात्मा" 'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति' इति श्रुतिस्मृतिदर्शनात् । सर्वेषां चित्तेषु यद्यप्यस्ति तथाऽपि भक्तचित्तेषु विशेषत इत्याह-भक्तचित्तेति । ब्रह्मविष्णुशिवात्मकेति । स ब्रह्मा स शिवः स हरिः' इति श्रुतिः ॥ ४ ॥ सूत उवाच
इति ब्रह्मादयः स्तुत्वा प्रणम्य भुवि दण्डवत् ।
भक्तिपारं गता देवा बभूवुः परमेश्वरे ॥४९॥ भक्तिपारमिति । पियातिशयवशाचित्तस्य विषयान्तरव्यावृत्तस्य तदेकनिष्ठतां भक्तेः पारम् ॥ ४ ॥
देवदेवो महादेवः सर्वभूतहिते रतः। अनुगृह्यावशान्देवानम्बिकापतिरीश्वरः ॥५०॥ प्रनृत्य परमं भावं स्वकं सम्यक्प्रदर्शयन् ।
ब्रह्मविष्ण्वादिभिः साकं श्रीमद्ध्याघ्रपुरं गतः ॥५१॥ अंत एव व्यवहारान्तराक्षमत्वमाह-अवशानिति । ईदृग्दशोपलम्भेन देवान्मुख्याधिकारिणो ज्ञात्वा परतत्त्वविषयं साक्षात्कारं तेषामन्वग्रहीदित्याह-अनुगृह्येति । ईदृशी हि दशा साक्षात्काराधिकारकारणमुक्ता पतञ्जलिना-विशेषदशिन आत्मभावभावनाविनिवृत्तिरिति । भावो देवादिविषया रतिः । यदाहुः___रतिर्देवादिविषया व्यभिचारियाऽर्जिता । भावः प्रोक्त इति ।
स चेह विषयस्य शिवस्य परमानन्दरूपत्वात्तद्विषयः स्वयमपि परमः । तं स्वात्मनि वर्तमानं परमं भावममिनयेन विशदं दर्शयितुं देवैः सह नृत्योचितं स्थानं श्रीमयाघ्रपुरं गत इत्याह--प्रवृत्य परमं भावमिति । यथा रत्यादिस्थायिभावकार्यस्य वर्णनेनाभिनयेन वा प्रदर्शने स रत्यादिरभिव्यक्तः सञ्शृङ्गारादिरसरूपतामापद्यते । उक्तं हि
५ न. देवदेव इति । भक्त्याऽधीनानां देवानां च्यव। २ क. 'तगाऽअितः ।
For Private And Personal Use Only