________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः३]
सूतसंहिता। नमस्ते देहरूपाय नमस्तेऽदेहरूपिणे । नमस्ते प्राणरूपाय नमस्तेऽप्राणरूपिणे ॥३९॥ नमस्ते श्रोत्ररूपाय नमस्तेऽश्रोत्ररूपिणे । नमस्ते वक्स्वरूपाय नमस्तेऽत्वक्स्वरूपिणे ॥४०॥ नमस्ते दृष्टिरूपाय नमस्तेऽदृष्टिरूपिणे । नमस्ते रसनारूप नमस्तेऽरसनात्मने ॥४१॥ नमस्ते घ्राणरूपाय नमस्तेऽघ्राणरूपिणे । नमस्ते पादरूपाय नमस्तेऽपादरूपिणे ॥४२॥ नमस्ते पाणिरूपाय नमस्तेऽपाणिरूपिणे । नमस्ते वाक्स्वरूपाय नमस्तेऽवाक्स्वरूपिणे ॥४३॥ नमस्ते लिङ्गरूपाय नमस्तेऽलिङ्गरूपिणे ।
नमस्ते पायुरूपाय नमस्तेऽपायुरूपिणे ॥४४॥ सत्यज्ञानानन्दात्मानन्तशब्दा अतजडदुःखानात्मत्वान्तवत्त्वव्युदासद्वारा ब्रह्म लक्षयन्तीति युक्तं व्यासेन ' आनन्दादयः प्रधानस्य ' इत्यत्र । तत्र देशकालवस्तुकृतपरिच्छेदनिरासवाचिनाऽनन्तशब्देन वस्तुकृतस्यापि परिच्छेदस्य निरासाद्भावाभावावपि वस्तुतः परमात्मनो न पृथगित्पभिप्रायेण बहुधा भावाभावरूपताभिधानम् ॥ ३६ ॥ ३७ ॥ ३८ ॥ ३९ ॥ ४० ॥४१॥ ४२॥ ४३ ॥४४॥
नमस्ते चित्तरूपाय नमस्तेऽचित्तरूपिणे ।
नमस्ते मातृरूपाय नमस्तेऽमातृरूपिणे ॥४५॥ मातृरूपायेत्यादि मितिः प्रमा तस्याः कर्ता माता ॥ ४५ ॥
नमस्ते मानरूपाय नमस्तेऽमानरूपिणे । नमस्ते मेयरूपाय नमस्तेऽमेयरूपिणे ॥४६॥ नमस्ते मितिरूपाय नमस्तेऽमितिरूपिणे ।
नमस्ते सर्वरूपाय नमस्तेऽसर्वरूपिणे ॥४७॥ करणं मानम् । विषयो मेयम् । तद्रूपायेत्यर्थः ॥ ४६॥ ४७ ॥
For Private And Personal Use Only