SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यवीपिकासमेता शिवमाहात्म्यखण्डे वेदवेदान्तैरिति । वेदान्तैः पारमार्थिकेन रूपेण ज्ञापनमर्चनं वेदैः स्तुत्यत्वेन चेष्टव्यत्वेन वाऽभिधानम् ॥ २९ ॥ ३० ॥ नमस्ते सोमरूपाय नमस्ते सूर्यरूपिणे । नमस्ते वह्निरूपाय नमस्ते जलरूपिणे ॥३१॥ नमस्ते भूमिरूपाय नमस्ते वायुमूर्तये । नमस्ते व्योमरूपाय नमस्ते ह्यात्मरूपिणे ॥३२॥ नमस्ते सोमरूपायेत्यादिनाऽष्टमूर्तित्वकथनम् । आत्मरूपिण इति । आत्मा यजमानः ॥ ३१॥ ३२॥ नमस्ते सत्यरूपाय नमस्तेऽसत्यरूपिणे। नमस्ते बोधरूपाय नमस्तेऽबोधरूपिणे ॥३३॥ नमस्ते सुखरूपाय नमस्तेऽसुखरूपिणे । नमस्ते पूर्णरूपाय नमस्तेऽपूर्णरूपिणे ॥ ३४॥ नमस्ते सत्यरूपायेत्यादिभावाभावप्रपञ्चस्य समस्तस्य शिवे परिकल्पितस्वाच्छिव एव तस्य पारमार्थिकं रूपं रजतादेरिव शुक्त्यादीत्यर्थः । असत्यलपिण इत्याचकारपश्लेषो द्वितीयपादेषु सर्वत्र । मुखरूपाय परमानन्दरूपाय । पूर्णरूपायानन्ताय ॥ ३३ ॥ ३४ ॥ नमस्ते ब्रह्मरूपाय नमस्तेऽब्रह्मरूपिणे । नमस्ते जीवरूपाय नमस्तेऽजीवरूपिणे ॥३५॥ जीवरूपापाऽऽत्मरूपाय ॥ ३५ ॥ नमस्ते व्यक्तरूपाय नमस्तेऽव्यक्तरूपिणे । नमस्ते शब्दरूपाय नमस्तेऽशब्दरूपिणे ॥ ३६ ॥ नमस्ते स्पर्शरूपाय नमस्तेऽस्पर्शरूपिणे । नमस्ते रूपरूपाय नमस्तेऽरूपरूपिणे ॥ ३७॥ नमस्ते रसरूपाय नमस्तेऽरसरूपिणे । नमस्ते गन्धरूपाय नमस्तेऽगन्धरूपिणे ॥ ३८॥ १ क. स्व. ग. जलमूर्तये । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy