SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५ अध्यायः३] सूतसंहिता। ततो विश्वाधिक रुद्रं महर्षि सर्वसाक्षिणम् । ब्रह्मविष्ण्वादयो देवाः पूजयामासुरादरात् ॥ २२॥ महर्षिमिति । दर्शनादृषिः । ऋषिर्दर्शनाविति यास्कः। तस्य महत्त्वं सर्वज्ञत्वात् ॥ २२ ॥ तथा लक्ष्म्यादयो देव्यस्तथाऽन्ये सर्वजन्तवः। पूजयामासुरीशानं पुरुष कृष्णपिङ्गलम् ॥ २३ ॥ अथैषां पुरतः श्रीमानम्बिकापतिरीश्वरः । आविर्बभूव सर्वज्ञः शंकरो वृषवाहनः ॥२४॥ दृष्ट्वा तं ब्रह्मविन्मुख्याः पशूनां पतिमीश्वरम् । ब्रह्मविष्ण्वादयः सर्वे प्रणम्य भुवि दण्डवत् ॥२५॥ शिरस्यञ्जलिमाधाय प्रसन्नेन्द्रियमानसाः। अस्तुवन्मुक्तिदं भक्त्या भुक्तिदं भवभेषजम् ॥ २६ ॥ देवा ऊचुः---- नमस्ते देवदेवेश नमस्ते करुणालय । नमस्ते सर्वजन्तूनां भुक्तिमुक्तिफलप्रद ॥२७॥ नमस्ते सर्वलोकानां सृष्टिस्थित्यन्तकारण । नमस्ते भवभीतानां भवभीतिविमर्दन ॥२८॥ पुरुषमिति । अन्तर्यामित्वेन सर्वेषां हृदयेऽवस्थानात्पूर्षु शरीरेषु शेत इति पुरुषः। श्रूयते हि 'स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयः' इति । कृष्णपिङ्गलमिति । कण्ठे कृष्णः । ललाटे पिङ्गलः 'पुरुषं कृष्णपिङ्गलम्' इति हि श्रुतिः ॥ २३ ॥ २४ ।। २५ ॥ २६ ॥ २७ ॥ २८ ॥ नमस्ते वेदवेदान्तैरर्चनीय द्विजोत्तमैः । नमस्ते शूलहस्ताय नमस्ते वह्निपाणये ॥ २९ ॥ नमस्ते विश्वनाथाय नमस्ते विश्वयोनये । नमस्ते नीलकण्ठाय नमस्ते कृत्तिवाससे ॥३०॥ १ ख. तथेति । २ ग. 'हिरूपिणे । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy