________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता [शिवमाहात्म्यखण्डे विश्वाधिकत्वं वक्तुं शिवस्योत्कर्षमुक्त्वा तदन्यस्यापकर्षमाह- अस्य मसादेति ॥ १४ ॥ १५॥
अयं धाता विधाता च सर्वदा सर्ववस्तुनाम् ।
यथा वैश्वानरेणेद्धमयो दहति भाति च ॥१६॥ धाता पोषकः । विधाता निर्माता । अतस्तेन पोष्यत्वं निर्मायमाणत्वं च तदन्यस्य ततोऽपकर्षे हेतुरित्यर्थः। वस्तुनामिति 'संज्ञापूर्वको विधिरनित्यः' इत्यदीर्घत्वम् । अन्येषामपि स्वोपजीविनः प्रति यत्पोषकत्वादि तच्छिवप्रसादलब्धत्वाच्छिवस्पैवेत्पत्र निदर्शनमाह-यथा वैश्वानरेणेति । अयसो यद्दग्धृत्वं भानं च तद्यथा वह्वेरेव तथेत्यर्थः । उत्तरत्र चायं दृष्टान्तः । अयसो यथा दाहप्रकाशी वढेरेवैवं विषयानन्दाः सर्वेऽपि शिवस्यैव स्वरूपभूता इति ॥ १६ ॥
तथाऽनेन भवत्येतजगत्सर्व विभाति च ।
अस्याऽऽनन्दस्य भूतानि लेशमन्यानि सर्वदा ॥१७॥ ___ अस्याऽऽनन्दस्पेति । एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुतेः ॥ १७॥
लब्ध्वा संतोषमापनान्यतीव ब्रह्मवित्तमाः।
अस्यैवाऽऽज्ञालवाकृष्टं जगनित्यं प्रवर्तते ॥ १८॥ अस्यैवाऽऽक्षेति । एतस्य वा अक्षरस्य प्रशासने गागि द्यावाप्रथिवी विधृते तिष्ठत इत्यादिश्रुतेः ॥ १८ ॥
अविज्ञायैनमात्मानं भवानत्यन्तमोहितः । अहंकाराभिभूतश्च भवता मोहितं जगत् ॥ १९॥ अतस्त्वं भ्रान्तिमुत्सृज्य स्वात्मभूतं महेश्वरम् ।
आराधयाऽऽदरेणैव सह देवैरुमापतिम् ॥२०॥ सूत उवाच---- इत्युक्त्वा मुनयः श्रीमानन्दी शंकरवल्लभः ।
अगमद्रथमारुह्य श्रीमत्कैलासपर्वतम् ॥२१॥ अहंकाराभिभवो विष्णोः प्रास्तेनोक्तः । अधुना तु नन्दिनेति न पौनरुक्य म् ॥ १९ ॥ २० ॥२१॥
For Private And Personal Use Only