________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ३]
सूतसंहिता ।
समर्थः । अनुग्रहशीलोऽपीत्याह करुणालय इति । उभयत्र कारणमाहशंकरवल्लभ इति ॥ १० ॥ ११ ॥
बोधयामास सर्वज्ञः परं भावं शिवस्य तु । नन्दिकेश्वर उवाच ----
विष्णो विश्वजगन्नाथः शंकरः परमेश्वरः ॥ १२ ॥ सर्वसाक्षी महानन्दः सर्वात्मत्वेन संस्थितः । स एव सर्वजन्तूनामात्मा सर्वावभासकः ॥ १३ ॥
परं भावमिति । भावो सत्ता । शिवस्य यः परो भावो निष्कलं रूपं तद्धि स्वरूपं पारमार्थिकत्वात्सदित्युच्यते । तदेव स्वात्मनि परिकल्पितेषु समस्तवस्तुषु सत्सदित्यनुगमात्सत्तेत्युच्यते । जलतरङ्गचन्द्रप्रतिबिम्बेष्वनुगतं चन्द्ररूपं यथां तद्वत् । सा चानुगम्यमानवस्तुपहिताऽपरो भावः । उपाध्यपगमे त्वनुगतं सन्मात्रं सत्परो भावः । सकलं वा विश्वाधिकं सोऽपि स्वेतरसमस्तवस्त्वतिशापित्वात्परो भावः । विश्वाधिको रुद्रो महर्षिरिति हि श्रुतिः । afaश्वाधिकत्वे विश्वस्य स्वत्वं तस्य च स्वामित्वमिति स्वस्वामिभावलक्षणं कारणमाह – विश्वजगन्नाथ इति । भोगापवर्गप्रदानलक्षणं शंकर इति । नियमनसामर्थ्यं परमेश्वर इति । सर्वज्ञत्वं सर्वसाक्षीति । नित्यतृप्ततामाहमहानन्द इति । स्वात्मन्यध्यस्तस्य सर्वस्य सत्तास्फूर्तिप्रदत्वं सर्वात्मत्वेनेति । न केवलं भोग्यवर्गस्य अपि तु भोक्तृवर्गस्यापि स एवाऽऽत्मेत्याह-स एव सर्वजन्तूनामात्मेति । नच तदात्मकस्य तन्नियन्तृत्वाद्य संभवः | वास्तवं हि तादात्म्यम् । लीलाकल्पित विभागनिबन्धनं तु नियन्तृत्वादीति । अत एव हि श्रूयते - अन्तः प्रविष्टः शास्ता जनानां सदात्मेति । आत्मत्वे सत्ताप्रदत्वं कारणमाह-- सर्वावभासक इति । स्वसत्तयैव लब्धसत्ताकं करोतीत्पर्थः॥ १२ ॥ १३ ॥
३३
१ ख. 'मित्यत्र भा ं । २ क. ख. ग. यथा चन्द्रत्वमित्युच्यते । ३ ग. सत्रत्मेति ।
५
For Private And Personal Use Only
-
अस्य प्रसादलेशस्य लवलेशलवेन तु ।
इदं विष्णुपदं लब्धं त्वया नान्येन हेतुना ॥ १४ ॥ अन्येषामपि सर्वेषां पदमस्य प्रसादतः । अनेनेदं जगत्सर्व विना न भवति स्वयम् ॥ १५ ॥
-