SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३२ तात्पर्यदीपिका समेता [१ शिवमाहात्म्यखण्डे यथोक्त एव विग्रहः । विष्णोरप्येतादृशी दशा कैवान्यस्य कथेति विवक्षया विष्णूदाहरणम् ॥ ४ ॥ Acharya Shri Kailassagarsuri Gyanmandir अहमेव जगत्कर्ता मय्येवेदं जगत्स्थितम् । मत्समश्चाधिकश्वापि नास्ति सर्वत्र सर्वदा ॥ ५ ॥ मम शक्तिविलासोऽयं जगत्सर्व चराचरम् । अहमेव समाराध्यः सर्वदा सर्वजन्तुभिः ॥ ६ ॥ मोहमूलवचनमाह – अहमेव जगत्कर्तेति ॥ ५ ॥ ६॥ - इत्यहंमानसंछन्नः स्वात्मभूतं महेश्वरम् । अविज्ञायाम्बिकानाथमनन्तानन्दचिद्धनम् ॥ ७ ॥ अतीवाऽऽज्ञापयामास ब्रह्मादीनखिलान्हरिः । अथ देवो महादेवः सर्वात्मा सर्वभासकः ॥ ८ ॥ नन्वहमेव जगत्कर्तेति जीवेश्वरतादात्म्यप्रतिपादकमिदं महावाक्यं तदनुसंदधानेऽस्य विष्णोः कथं व्यामोह इत्यत आह- इत्यहंमानसंछन्न इति । वापार्थपरित्यागेन लक्ष्यस्य चिदानन्दघनस्यानुसंधाने न व्यामोहः । अहंकारविशिष्टं त्वात्मानं मन्यमानस्य तस्यासदेव सार्वज्ञयं ब्रुवतः कथं न व्यामोह इत्यर्थः ॥ ७ ॥ ८ ॥ संजहार मिति ॥ ९ ॥ तस्य शक्तिं समाहृत्य मोहयामास शंकरः । ततस्तत्प्रमुखाः सर्वे ब्रह्माद्याः पशवो भृशम् ॥ ९ ॥ अविमर्शदशायां व्यामुह्यतोऽपि विष्णोर्विमर्शकाले विवेकः स्यात्तमपि शिवः ब्रह्मादिसकललोकव्यामोहजननापराधनिमित्तेनेत्याह - तस्य शक्ति मोहिता मायया शंभोर्विवशाश्व विशेषतः । एतस्मिन्नन्तरे श्रीमानन्दी शंकरवल्लभः ॥ १० ॥ सर्वविज्ञानरत्नानामाकरः करुणालयः । समागत्य हरिब्रह्मप्रमुखानमराधिपान ॥ नन्दी देवानप्यनुग्रहीतुं समर्थ इत्याह – सर्वविज्ञानेति । न केवलमनुग्रह ११ ॥ १ ख. 'ति त्रयाणां संबन्धः । २ ङ. र्थस्य परि । ३ ग. नाय बाघ । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy