SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अध्यायः ३] www.kobatirth.org सूतसंहिता । तृतीयोऽध्यायः । नैमिषीया ऊचुःभगवन्कः सुरैः सर्वैरसुरैः सिद्धकिंनरैः । मुनिभिर्यक्षगन्धर्वैस्तथाऽन्यैः सर्वजन्तुभिः ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir विरक्ताः शिवसेवया तत्त्वज्ञानेन मुच्यन्ताम् । येतु न केवलं मोक्षं भोगानप्यपेक्षन्ते तैः को देवः सेव्य इति मुनयः सूतं पृच्छन्ति भगवन्कः सुरैरिति ॥ १ ॥ भुक्त्यर्थे च विमुक्त्यर्थं पूज्यः पुण्यवतां वर । तमस्माकं महाभाग ब्रूहि सर्वार्थवित्तम ॥ २ ॥ ३१ भुक्तपर्थमिति । प्रथमतो भुक्त्यर्थं क्रमेण मुक्त्यर्थं च । अथवा सर्वेषां मध्ये केचिदुक्तयर्थमपरैर्मुक्तपर्थमिति विभागेन सर्वैरुभयार्थमित्यर्थः । क्रममुक्तिरपि हि श्रूयते - 'स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते ' इति ॥ २ ॥ सूत उवाच साधु साधु महाप्राज्ञाः पृष्टमेतजगद्वितम् । वक्ष्ये तं श्रद्धयोपेताः शृणुध्वं मुनिपुङ्गवाः ॥ ३ ॥ स्वयमुपतचित्तैः केवलं मोक्षापेक्षैरपि भवद्भिः करुणया भोगार्थिभ्यो हितमेतत्पृष्टमित्याह – जगद्धितमिति ॥ ३ ॥ पुरा विष्णुर्जगन्नाथः पुराणः पुरुषोत्तमः । मायया मोहितः साक्षाच्छिवस्य परमात्मनः ॥ ४॥ १ घ. सत्तम । पुरुषोत्तम इति । पुरुषेषूत्तम इति पुरुषोत्तमः । ' यतश्च निर्धारणम्' इति विहितया निर्धारणसप्तम्या समासः । पुरुषश्चासावुत्तमश्चेति सामानाधिकरण्ये हि 'सन्महत्परमोत्तम' इति प्रथमानिर्देशात्पूर्वनिपात उत्तमपुरुष इति स्यात् । पुरुषाणामुत्तम इति निर्धारणषष्ठ्यां तु 'न निर्धारणे' इति समासनिषेधः । अतो For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy