________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०
तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे नोपदिष्टमिति सूतः प्रत्यभिज्ञापयन्नुपसंहरति-इतीति । तं जगद्धेतुममन्यन्त इति । मुनिश्रेष्ठा इति संबोधनम् । हे मुनिश्रेष्ठा देवा अमन्यन्तेत्यन्वयः । अनसूयव इति । असूया हि चित्तस्य मलम् । मलिनचित्तास्तु न बुध्यन्ते । अत एव चित्तस्य मलनिरासकारिकर्माण्युक्तानि पतञ्जलिना । मैत्रीकरुणामुदितोपेक्षाणां मुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनमित्यादीनि । मुखितेषु मैत्री भावयतः परकीयमपि मुखं स्वकीय मेवेत्यभिमानाचित्तगतमीयामलं निवर्तते । दुःखितेषु करुणां भावयतः स्वयं दुःखोत्पादनहेतुद्वेषमलं निवर्तते । पुण्यकृत्सु मुदितां भावयतो गुणेषु दोषारोपणरूपमसूयामलं निवर्तते । पापिष्ठेषूपेक्षां भावयतस्तत्संसर्गत्यागात्संसर्गजदोषमलं निवर्तत इति । शिवस्य देवैः सह संवादोपन्यासस्य फलमाह-तस्माद्यूयमिति । भजनफलमाहसोऽपि सर्वजगद्धेतुरिति ॥ ४० ॥ ४१ ॥ ४२ ॥ ४३॥
इति श्रुत्वा महात्मानो नैमिषारण्यवासिनः। महादेवस्य माहात्म्यं श्रीमत्पाशुपतस्य च ॥४४॥ हृष्टचित्ता महात्मानं मूतं सर्वार्थसागरम् । प्रणम्य पूजयामासुर्भक्त्या विज्ञप्तिसिद्धये ॥४५॥ इति श्रीस्कन्दपुराणे श्रीसूतसंहितायां शिवमाहात्म्यखण्डे पाशुपतव्रतं नाम द्विती
योऽध्यायः॥२॥ सूतमुनिसवादमुपन्यस्तं व्यास उपसंहरति इति श्रुत्वेति । विज्ञप्तीति । ज्ञपेः 'सनीवन्तर्ध' इति सनीडागमविकल्पात् 'यस्य विभाषा' इति निष्ठायामुक्तो यो निषेधः सः 'ऋल्वादिभ्यः क्तिनिष्ठावद्भवति' इति निष्ठावद्भावाक्तिन्यपि भवति ॥ ४४ ॥४५॥ इति श्रीमत्काशीविलासक्रियाशक्तिपरमभक्तश्रीमत्र्यम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्रीसूतसंहितातात्पर्य दीपिकायां शिवमाहात्म्यखण्डे पाशुपतव्रतं नाम द्विती
योऽध्यायः ॥ २॥
For Private And Personal Use Only