SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Acharya Shri Kailassagarsuri Gyanmandir मात । अध्यायः२] सूतसंहिता। एवं मां यो विजानाति स सर्व वेद नेतरः। उक्तं वेदान्तविज्ञानं युष्माकं सुरपुङ्गवाः॥३८॥ स सर्व वेदेति । एकविज्ञानेन सर्वविज्ञानश्रुतेः । उक्ताधिकारकारणाभावे जातमपि ज्ञान मेषरनिक्षिप्तं बीजमिव निष्फलं भवेदित्याह-नेतर इति । 'येषां तपो ब्रह्मचर्य येषु सत्यं प्रतिष्ठितम् । तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममतं न माया च' इति श्रुतेः । ब्रह्मैव लोको निष्कलः शिव इत्यर्थः ॥ ३८॥ व्रतं पाशुपतं चीर्ण यैदिजैरादरेण च । तेषामेवोपदेष्टव्यमिति वेदानुशासनम् ॥ ३९ ॥ ___ अत एव व्रतादिभिर्जनिताधिकाराणामेवोपदेष्टव्यमित्याह-व्रतं पाशुपतं चीर्ण. मिति । लोकरञ्जनमात्रप्रयोजनतया दाम्भिकैः कृतमपि व्रतादिकं निष्फलमेवेत्याह-आदरेणेति । इति वेदानुशासनमिति । "क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकाएं श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम्' इत्यादिश्रुतेः । अत्रकर्षिहोमशिरोव्रतादिकमध्ययनधर्मत्वादाथर्वणिकानामेव । अन्येषां तु क्रियावत्त्वादिकमेव विद्याधिकारकारणम् । तदुक्तं व्यासेन 'स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तनियमः' इति ॥ ३९ ॥ सूत उवाचइत्युक्त्वा भगवाबुद्रस्तत्रैवान्तरधीयत । ततो देवा मुनिश्रेष्ठा देवदेवस्य वैभवम् ॥ ४०॥ विदित्वा तं जगहेतुममन्यन्तानसूयवः । तस्माद्यूयमपि श्रेष्ठाः सर्वज्ञं परमेश्वरम् ॥४१॥ जगतः कारणं बुध्दा भजध्वं सर्वकारणम् । सोऽपि सर्वजगद्वेतुः सोमः सोमार्धशेखरः ॥४२॥ प्रसादाभिमुखो भूत्वा ब्रह्मविष्ण्वादिभिः सह । सांनिध्यं वेदविच्छेष्ठाः करिष्यत्यखिलेश्वरः ॥४३॥ अतः सर्वजगद्धेतुरन्य एवेति मुनिभिः प्रश्ने यनिर्दिष्टं तदेतद्देवेभ्यः शिवे १ ख. ग. योऽभिजा । २ क. ख. ङ. मूबर। ३ क. स. ङ. श्रुतिः । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy