SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे प्राह गम्भीरया वाचा भगवान्करुणानिधिः। अहमेव परं तत्त्वं मत्तो जातं जगत्सुराः ॥३४॥ मय्येव संस्थितं नष्टं मत्समो नाधिकः सदा। मत्स्वरूपपरिज्ञानादेव संसारनिर्हतिः॥३५॥ ननूपदेशेन परोक्षज्ञानं देवानां शिवेन प्रागेव जनितम् । प्रागुक्तपाशुपतवतादिसाधनैश्च तैस्तनिष्कलं रूपमपरोक्षतया ज्ञातम् । किमतः परमहमेव परं तत्त्वमित्यादिना तेभ्यः शिवेनोपदेष्टव्यम् । अथ तस्य तनिष्कलरूपस्य साक्षास्कृतस्यापि वा स्वस्मादभेद उपदिश्यत इति । न । तस्याप्यहमेको जगैद्धातुरित्यादिना प्रथमत एवोपदिष्टत्वात् । सत्यम् । येयं मम निष्कलरूपता भवदिः प्रागुपदेशतो ज्ञाता सैवेयमिदानी भवद्भिः साक्षात्कृतेति देवैख़ताया अपि शिवेन प्रत्यभिज्ञाप्यमानत्वात् । मत्तो जातमिति । 'यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति' इति श्रुतेः। मत्समो नाधिकः सदेति । मुक्तौ द्वितीयस्यैवाभावात्संसारे सतोऽपि द्वितीयस्य शिवादपकृष्टत्वान्न कदाचिदपि परः शिवेन समोऽस्ति कुतोऽभ्यधिकस्य कथा । श्रूयते हि-'न तत्समश्चाभ्यधिकश्च दृश्यते' इति । ज्ञानस्य मोक्षहेतुत्वं यत्मागुपदिष्टम् 'यो जानाति स मुच्यते' इति तत्मत्यभिज्ञापयति-मत्स्वरूपपरिज्ञानादिति ॥ ३४ ॥ ३५॥ मम ज्ञानं च वेदान्तश्रवणादेव जायते।। मुमुक्षोव्रतनिष्ठस्य प्रशान्तस्य महात्मनः ॥३६॥ ज्ञानस्य वेदान्तहेतुकत्वमुपदिष्टम् 'ज्ञानं वेदान्तवाक्यजम्' इति तत्मत्यभिज्ञापयति--मम ज्ञानं चेति । तदपि श्रवणमभिहितव्रतादिक्षपितकल्मषस्यैव फलपर्यन्तं भवति नान्यस्येत्याह-मुमुक्षात्रतेति । विविदिषापरिपन्थिपापापनयनं यज्ञादिना । उत्पन्नविविदिषस्य मुमुक्षौर्वेदनपरिपन्थिपापापनयो व्रतादिनेति ॥ ३६॥ यतकर्मकलापस्य ध्याननिष्ठस्य शूलिनः। यज्ञदानादिभिः क्षीणमहापापार्णवस्य च ॥३७॥ त्यक्तकर्मेति । विक्षेपकत्वेन कर्मकलापस्य ध्यानविरोधित्वात् । शूलिन इति कर्मणि षष्टी । शिवगोचरं यद्धयानं तनिष्ठस्येत्यर्थः ॥ ३७॥ १ घ. नितिः । २ क. गद्धेतु।। ३ ख. दिना क्ष। ४ क. ख. ग. घ. यज्ज्ञानं । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy