________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः२] सूतसंहिता।
२७ नुपविष्ट उदासीन एवं संसाराननुपविष्टमुदासीनमित्यर्थः । अत्रापि शंकरमिति सकलं रूपमनूच तस्य तमेव साक्षाद्ददृशुरिति निष्कलरूपतया साक्षादर्शनमुच्यते । यद्वा शं मुखं संसारिणां मुक्तानां च करोतीति शंकरः । तथाहि शुभकर्मोपस्थापितविषयेन्द्रियसंप्रयोगजनितान्तःकरणवृत्ती पर एवाऽऽनन्दः संसारिणां मात्रया व्यज्यते । श्रूयते हि 'एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति । सकलसंसारनिवृत्तौ च साकल्येन व्यज्यते । 'एषोऽस्य परमानन्दः' इति श्रुतेः । तदुक्तं तत्त्वविद्भिः
"स्वमात्रयाऽऽनन्दयदत्र जन्तून्सवात्मभावेन तथा परत्र । यच्छंकरानन्दपरं हृदब्जे विश्वाजते तद्यतयो विशन्ति" इति ॥ यत्प्राप्तयर्थ द्विजैर्वेदा अधीयन्ते । यं यजन्त इति । 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन' इति श्रुतेः । रुद्रमीशानमिति शंकरपदवदनुवादत्वमेव । यद्वा रुदं दुःखं द्रावयतीति रुद्रः। अपरतत्रत्वादीशानश्चेति निएकलपरतया व्याख्येयम् । न केवलं विविदिषन्ति विदन्ति चेत्याह-पं प्रपश्यन्ति देवेशं योगिन इति । यस्य प्रसादादिति । पद्विष्णोर्जगतः परिपालने सामर्थ्य यब्रह्मणस्तत्सृष्टौ सामर्थ्य तदुभयं शिवप्रसादादेवेत्यर्थः ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥
तमेव संयमीशानं ददृशुः सत्त्वसंयुताः । अथ तं तुष्टुवुर्दैवाः साम्बं सर्वफलप्रदम् ॥ ३१ ॥ संसाररोगदुःखस्य भेषजं गद्गदस्वराः। अथ देवो महादेवः साम्बो देवैरभिष्टुतः ॥३२॥ विलोक्य देवानखिलान्प्रीतोऽस्मीत्यब्रवीद्धरः।
पुनर्देवान्समालोक्य रुद्रो विष्णुपुरोगमान् ॥ ३३ ॥ सत्त्वसंयुता विशुद्धसत्त्वाः । श्रूयते हि-'ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु, तं पश्यते निष्कलं ध्यायमानः' इति ।
अथ तं तुष्टुवुरिति । इयमपरोक्षज्ञानलाभनिबन्धना स्तुतिः । अथर्वशिरसा देवमस्तुवनिति तूपदेशतः परोक्षज्ञानलाभनिबन्धना स्तुतिरिति । सर्वफलपदमिति । निरतिशयानन्दत्वेन सुखजातस्य समस्तस्यात्रैवान्तर्भावात् । श्रूयते हि-'यो वेद सोऽश्नुते सर्वान्कामान्सह' इति ॥ ३१ ॥ ३२ ॥ ३३ ॥ १ ङ. तदेव । २ ङ. योगाजनि। ३ ङ. विराजते । ४ ख. यज्ञेन दानेन ।५ ख. सर्वभी। ६ ग. पश्यति।
For Private And Personal Use Only