SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्ड निष्कलरूपेण साक्षात्सांनिध्यमपरोक्षज्ञानविषयभावमकरोदिति विधानात् । निराधारः । स्वमहिमपतिष्ठत्वात् । स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नीति श्रुतेः । मायापारतन्यलक्षणकालुण्यविरहानैर्मल्पम् । अत एव मायाकार्यसंसारोपप्लवविरहानिरुपप्लवः ॥ २२ ॥ २३ ॥ सांनिध्यमकरोद्रुद्रः साक्षात्संसारनाशकः। यं प्रपश्यन्ति वेदान्तैः स्वरूपं सर्वसाक्षिणम् ॥२४॥ तमेव शंकरं साक्षाददृशुः सुरसत्तमाः।। यं न पश्यन्ति दुर्वृत्ताः श्रौतस्मातविवर्जिताः ॥२५॥ तमेव शंकरं साक्षाद्ददृशुर्देवपुङ्गवाः। यत्प्राप्त्यर्थ हिजैर्वेदा अधीयन्ते समाहितैः ॥ २६ ॥ तमेव रुद्रमीशानं ददृशुस्त्रिदशा भृशम् । यं यजन्ते मुनिश्रेष्ठाः श्रद्धया ब्राह्मणोत्तमाः॥२७॥ तमेव परमं देवं ददृशुः स्वर्गवासिनः । यं प्रपश्यन्ति देवेशं योगिनो दग्धकिल्बिषाः ॥२८॥ तमेव सर्वमानन्दं ददृशुर्लोकनायकाः। यस्य प्रसादाद्भगवान्विष्णुर्विश्वजगत्पतिः ॥२९॥ तमेव सर्वलोकेशं ददृशुः पुरुषाधिकाः । यत्प्रसादाहिजा ब्रह्मा स्रष्टा सर्वस्य सुव्रताः ॥३०॥ तदेव साक्षात्क्रियमाणं निष्कलं रूपं सकलाद्विविच्य विशदीकर्तुमाह-पं प्रपश्यन्तीत्यादिभिः । वेदान्तः 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादिभिः पदार्थपदैरवान्तरवाक्यगतैस्तत्त्वमस्यहं ब्रह्मास्मीत्यादिभिर्महावाक्यगतैश्च पदैरभिधावृत्त्या सगुणं रूपं ज्ञात्वा लक्षणया निष्कलं रूपं पश्यन्तीत्यर्थः । तथाहि सत्यज्ञानानन्तानन्दशब्दाः परापरजातिवाचिनस्तदाधारभूतामेकामानन्दव्यक्ति ब्रह्मत्वेन लक्षयन्ति । तत्त्वमस्यहं ब्रह्मास्मीत्यादौ च तदादीनि पदानि सर्वज्ञस्वजगत्कारणत्वादिविशिष्टं त्वमादीनि च संसारादिविशिष्टमभिधाय विरुद्धं विशेषणांशद्वयं परित्यज्याखण्डैकरसं लक्षयन्ति । स्वरूपमिति । स्वं निरस्तसमस्तोपाधिकं रूपमित्यर्थः । सर्वसाक्षिणमिति । यथा साक्षी व्यवहारान For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy