________________
Shri Mahavir Jain Aradhana Kendra
३२४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिका समेता
आगता अपि सुरासुरा जना अप्सरोभिरखिलैरनुत्तमैः ॥ शंकरश्च भगवान्सभापतिः सर्वलोकहितकाम्ययाऽम्बया ॥ ५१ ॥
[ ३ मुक्तिखण्डे -
सह परिकरबन्धं वेदमन्त्रेण कृत्वा निखिलभुवननाथो नीलकण्ठस्त्रिनेत्रः ॥ सकलजनसमूहैः सेव्यमानः स्वभक्तै
स्तनययुगलयुक्तो नन्दिनाऽऽनन्दितेन ॥ ५२ ॥
महोत्सवविनोदेन भगवान्परमेश्वरः || पुण्डरीकपुरं दिव्यं प्रादक्षिण्यक्रमेण सः ॥ ५३ ॥ चरित्वा शिवगङ्गायां शंभुस्ताण्डवमण्डितः ॥ स्नानं कृत्वा ददौ तीर्थं सर्वेषां प्राणिनां हरः॥ ५४ ॥ सुरासुरादयो यस्मिन्शिवगङ्गाभिधे वरे || श्रद्धया संनिधौ तस्य स्नानं कृत्वा यथाबलं ॥ ५५ ॥ धनं धान्यं च वस्त्रं च तिलं गां भूमिमुत्तमाम् ॥ प्रदत्त्वा शिवभक्तेभ्यः शंकरं शशिभूषणम् ॥ ५६ ॥
॥ ४१ ॥ ४२ ॥ ४३ || ४४ || ४५ || ४६ || ४७ || ४८ ॥ ४९ ॥५०॥ ।। ५१ ।। ५२ ।। ५३ || ५४ || ५५ || ५६ ॥
नीलकण्ठं विरूपाक्षं तुष्टुवुश्च सुरादयः ॥ नमस्ते रुद्र मन्यव उतोत इषवे नमः ॥ ५७ ॥ नमस्ते अस्तु धन्वने कराभ्यां ते नमो नमः ॥ या ते रुद्र शिवा तनूः शान्ता तस्यै नमो नमः ॥ ५८ ॥
For Private And Personal Use Only
नमस्ते रुद्र मन्यव इति । रक्षायां साक्षादुपकरणत्वेन रुद्रसंबन्धिभ्यो मन्युधनुर्बाणहस्तेभ्यो नमस्कारः । मन्युरिह स्वपरिपन्थिविषयः ॥ ५७ ॥ ५८ ॥