________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्याय: ९ ]
सूतसंहिता |
वत्सरान्ते च तीर्थेऽस्मिन्त्रानं कृत्वा महत्तरे || प्रदत्त्वा पूज्य देवेशं श्रीमूलस्थाननायकम् ॥ ४४ ॥ ततः सभापतिं नित्यं प्रणम्य भुवि दण्डवत् ॥ मन्त्रं षडक्षरं नित्यं जपित्वाऽयुतमादराव ॥ ४५ ॥ वत्सरान्ते धनं दत्त्वा ब्राह्मणानां यथाबलम् || श्रीमत्पञ्चाक्षरेणैव सतारेण महेश्वरम् ॥ पूजयामासुरत्यन्तं श्रद्धयैव सभापतिम् ॥ ४६ ॥ ततः प्रसन्नो भगवान्महेश्वरो मुनीश्वराणामपि दृष्टिगोचरः ॥ प्रनृत्यमानोऽभवदम्बिकापतिः
समस्तवेदान्तसभापतिः शिवः ॥ ४७ ॥
व्यासादयो वेदविदां वेरा हरं
दिवाकराणां शतकोटिकोटिभिः ॥
समानतेजस्कमतीव निर्मलं विशालवक्षस्थलमार्तिहारिणम् ॥ ४८ ॥
दृष्ट्वा प्रसादेन महत्तरेण ते
प्रणम्य सर्वे भुवि दण्डवत्पुनः ॥
प्रजल्प्य भक्त्या विवशा विचेष्टिता
Acharya Shri Kailassagarsuri Gyanmandir
निवृत्तबन्धा अभवन्प्रसादतः ॥ ४९ ॥
पुष्पवृष्टिरभवन्महत्तरा स्वस्तिमङ्गलपुरःसराऽपि च ॥
काहलादिखपूरितं जग
तोषिता अपि सुरासुरा जनाः ॥ ५० ॥
१ ङ. वरं ।
For Private And Personal Use Only
३२३