________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
__तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेशिष्यस्तादृग्विधैर्युक्तो महात्मा स्वयमागतः॥ तं दृष्ट्वा परमप्रीत्या प्रणम्य भुवि दण्डवत् ॥ ३५॥ सूतः स्वशिष्यैर्मुनिभिः सह सत्यवतीसुतम् ॥ तत्पादपङ्कजवंदं निधाय शिरसि क्रमाव ॥ ३६॥ चक्षुषोर्हृदये चैव संतोषागद्गदस्वरः ॥
पादप्रक्षालनं कृत्वा पवित्रं तजलं पुनः ॥ ३७॥ आषाढेनेति । "आषाढो बतिनां दण्डः" इति हलायुधः ॥ ३३ ॥ ३४ ॥ । ३५ ॥ ३६ ॥ ३७॥
पीत्वा यथार्ह संपूज्य व्यासं शिष्यगणावृतम् ॥
तदाक्यं वेदवत्सत्यं वशिष्यान्वेदवित्तमान् ॥ ३८॥ तद्वाक्यं व्यासवाक्यम् ॥ ३८॥
श्रावयित्वा महाधीमान्सह तेनाखिलैरपि । श्रीमद्याघ्रपुरं दिव्यमवाप पुरुषार्थदम् ॥ ३९ ॥ पुनः सर्वे मुनिश्रेष्ठा वेदव्यासपुरोगमाः॥
चापे सूर्ये स्थिते रौद्रे नक्षत्रे श्रद्धया सह ॥ ४०॥ व्याघ्रपुरप्रभावेऽतिशयनक्षत्रम् । रौद्रे नक्षत्र आायाम् ॥ ३९ ॥ ४०॥
स्नानं कृत्वा महातीर्थे शिवगङ्गाभिधे वरे ॥ यथाशक्ति धनं दत्त्वा ब्राह्मणानां मनीषिणाम् ॥४॥ उपोष्यैकं दिनं दृष्ट्वा श्रीमूलस्थाननायकम् ॥ प्रदक्षिणत्रयं कृत्वा प्रणम्य धरणीतले ॥४२॥ षडक्षरेण मन्त्रेण श्रीमूलस्थाननायकम् ॥ समाराध्यायुतं नित्यं जपित्वा मन्त्रमुत्तमम् ॥४३॥
१ ग, ‘भूलास्था।
For Private And Personal Use Only