________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ९] सूतसंहिता।
३२१ तस्य शिष्यस्तु विप्रेन्द्रास्तद्दाक्यादाश्वलायनः॥ पूर्वोक्तेनैव मार्गेण भगवन्तं त्रियम्बकम् ॥ २६ ॥ श्रीमद्दभ्रसभामध्ये नृत्यन्तं देवनायकम् ॥ दृष्ट्वा प्रणम्य मेधावी प्रसादेन शिवस्य तु ॥ २७ ॥ अभवत्सूत्रकृविप्राः शाकल्यस्य महामुनिः॥ एवं पूर्वोक्तमार्गेण श्रद्धया बहवो जनाः ॥२८॥ दृष्ट्वा भ्रसभामध्ये नर्तनं शंकरस्य तु ॥ कृतार्था वेदविच्छ्रेष्ठा अभवन्नचिरेण तु ॥२९॥ तस्माद्भवन्तोऽपि पुरोक्तवर्मना
शिवस्य नृत्तं शिवया निरीक्षितम् ॥ दृष्ट्वा महेशस्य हरस्य शूलिनः __ प्रसादमात्रेण विमुक्तिभागिनः॥३०॥ भवत परमतत्त्वप्राप्त्युपायो मयोक्तः
सकलगुरुवराणामुत्तमो व्याससंज्ञः ॥ अवददतिरहस्यं मे पुरा श्रद्धयैव
प्रवरगुणनिधानः पद्मनाभांशभूतः ॥ ३१ ॥ एवमुक्त्वा मुनीन्द्रेभ्यः सूतः पौराणिकोत्तमः ॥
कृष्णद्वैपायनं व्यासं सस्मार श्रद्धया सह ॥ ३२॥ न केवलं स्वयमकार्षीत् । किंतु स्वशिष्यमाश्वलायनमपि तथाकरणे नियुक्तवान् । स आश्वलायनोऽपि तथा कृतवानित्याह-तद्वाक्यादाश्वलायन इत्यादि ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥
एतस्मिन्नन्तरे श्रीमान्महाकारुणिकोत्तमः ॥ कृष्णाजिनी सोत्तरीय आषाढेन विराजितः ॥ ३३॥ भस्मोद्धूलितसर्वाङ्गः शुद्धतिर्यवित्रपुण्ड्धृत् ॥ रुद्राक्षमालाभरणो जपन्पञ्चाक्षरं मुदा ॥ ३४॥
For Private And Personal Use Only