________________
Shri Mahavir Jain Aradhana Kendra
३२०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिका समेता
[ ३ मुक्तिखण्डे -
बहवो देवदेवस्य नृत्यमत्र प्रसादतः ॥ दृष्ट्वा स्ववाञ्छितं सर्वं प्राप्तवन्तो मुनीश्वराः ॥ १८ ॥
सूत उवाच -
एवं नन्दीशवचनं श्रुत्वाऽसौ शौनको मुनिः ॥ सर्वं कृत्वा क्रमेणैव श्रद्धया मुनिसत्तमाः ॥ १९ ॥ प्रसादेन महेशस्य नर्तनं सर्वसिद्धिदम् ॥ दृष्ट्वा
सभामध्ये भवान्या सह शौनकः ॥ २० ॥ अतीव प्रीतिमापन्नः स्तोत्रैः स्तुत्वा यथाबलम् ॥ भक्त्या परवशो भूत्वा किंचित्कालं महामुनिः ॥ २१ ॥ पुण्डरीकपुरे दर्शनला भोपायमाह - येषामिति ॥ ९ ॥ १० ॥ ११ ॥ १२ ॥
॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ २१ ॥
पुनश्व दृष्ट्वा देवेशं नृत्यन्तं देवनायकम् ॥ प्रमोदेन स्वयं विप्रा अकरोद्दण्डनर्तनम् ॥ २२ ॥ देवदेवोऽपि संतुष्टः शौनकाय द्विजोत्तमाः ॥ प्राह गम्भीरया वाचा शौनक त्वं महामुने ॥ २३ ॥
दण्डनर्तनमिति । दण्डप्रणामैः सहितं हर्षोत्कर्षनिमित्तवशप्रवृत्तं नृत्तमिस्पर्थः ॥ २२ ॥ २३ ॥
वेदानामादिभूतस्य ऋग्वेदस्य ममाऽऽज्ञया ॥ अव निर्वाहकस्तत्र शाकल्यस्य विशेषतः ॥ २४ ॥ एवमाज्ञापितस्तेन शिवेन मुनिसत्तमः ॥ शौनको भगवान्विप्रास्तथा निर्वाहकोऽभवत् ॥ २५ ॥
भव निर्वाहक इति । अत एव महाव्रते होतृप्रयोगस्य निर्वाह: शौनकेन कृतः । शाकल्यस्येति । शाकल्य कृतपदविभागानुसारेण हि शौनक ऋग्विधानबृहद्देवतामहाव्रतप्रयोगादिग्रन्थानकार्षीदित्यर्थः ॥ २४ ॥ २५ ॥
१ गङ नृत्यमि । २ ङ. शाकलस्य ।
For Private And Personal Use Only