SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ९] सूतसंहिता। ३१९ कैलासे नित्यं सतोऽपि नर्तनस्य दर्शनं दुर्लभमिति यत्र स्थाने मुलभं तदाह-पुण्डरीकपुर इति ॥ ७॥ तत्रापि शौनकाम्बाऽपि स्कन्दो विघ्नेश्वरोऽपि च ॥ क्षेत्रपालो मया साध पश्यत्यन्यो न पश्यति ॥ ८॥ अम्बाऽपि गौर्यपि ॥ ८॥ येषां प्रसादो देवस्य शौनकास्ति महत्तरः॥ ते प्रपश्यन्ति तत्रैव महानर्तनमैश्वरम् ॥ ९ ॥ तस्मात्प्रसादसिद्धयर्थ शौनक श्रद्धया सह ॥ पुण्डरीकपुरं गत्वा खो चापस्थिते सति ॥ १०॥ आर्द्रायां प्रातरेव त्वं शुचिर्भूत्वा समाहितः ॥ शिवगङ्गाभिधे तीर्थे स्नानं कृत्वा महत्तरे ॥ ११ ॥ यथाशक्ति धनं धान्यं दत्त्वाऽन्यदाऽनसूयवे ॥ उपोष्य दिनमेकं वा श्रीमूलस्थाननायकम् ॥ १२ ॥ भक्त्या प्रदक्षिणीकृत्य प्रणम्य भुवि दण्डवत् ॥ श्रीमत्पञ्चाक्षरं मन्त्रं जपित्वाऽयुतमादरात् ॥ १३॥ दिने दिने मुनेऽब्दान्ते स्नानं कृत्वा यथा पुरा ॥ प्रणम्य देवमीशानं श्रीमूलस्थाननायकम् ॥ १४ ॥ पुनर्नित्यं महाभक्त्या श्रीमद्दभ्रसभापतिम् ॥ प्रदक्षिणत्रयं कृत्वा प्रणम्य भुवि दण्डवत् ॥ १५॥ श्रीमत्पञ्चाक्षरं मन्त्रं जपित्वा पूर्ववत्पुनः ॥ वत्सरान्ते यथाशक्ति धनं दत्त्वा सभापतेः ॥ १६ ॥ पूजां पञ्चाक्षरेणैव कुरु श्रद्धापुरःसरम् ॥ पुनः प्रसादस्ते तस्य भविष्यत्येव शौनक ॥ १७॥ १ ग. 'न्यद्राह्मणाय च ॥ उ । २ ङ. 'दतस्तस्य । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy