SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१८ [ ३ मुक्तिखण्डे तात्पर्यदीपिकासमेता(अथ नवमोऽध्यायः) मुनय ऊचुः भवता सर्वमाख्यातं संक्षेपादिस्तरादपि ॥ भवत्प्रसादादस्माभिर्विज्ञातं च विचक्षण ॥१॥ तथाऽपि देवदेवस्य शिवस्य परमात्मनः ॥ विश्वाधिकस्य रुद्रस्य ब्रह्मणः सर्वसाक्षिणः ॥२॥ नर्तनं द्रष्टुमिच्छामः शंकरस्याम्बिकापतेः ॥ अतः कारुण्यतोऽस्माकं तदुपायं वदाइतम् ॥ ३॥ उक्तमुक्त्युपायजातमध्ये भगवन्नृत्यदर्शनस्यैव सुकरत्वं मुलभत्वं महाफलत्वं च निश्चिन्वतां मुनीनां तदुपायगोचरं प्रश्नमवतारयति-भवता सर्वमिति ॥१॥२॥३॥ सूत उवाच शृणुध्वं तत्प्रवक्ष्यामि श्रद्धया वेदवित्तमाः॥ पुरा नन्दीश्वरं धीमानपच्छच्छौनको मुनिः ॥४॥ सोऽपि कारुण्यतः श्रीमानन्दी वेदविदां वरः ॥ शौनकायाब्रवीत्रला महादेवं घृणानिधिम् ॥५॥ नन्दिकेश्वर उवाच कैलासे संध्ययोः शंभुः करोयानन्दनर्तनम् ॥ तच्छिवा केवलं पश्यत्यन्यस्तत्र न पश्यति ॥६॥ पृष्टमुपायं ब्रुवाणः सूतस्तत्र प्रत्ययदाक्य पुरावृत्तमुदाहरति-पुरेत्यादि ॥४॥५॥६॥ पुण्डरीकपुरे रुद्रः शौनकाऽऽनन्दनर्तनम् ॥ श्रीमद्दभ्रसभामध्ये करोति भगवान्सदा ॥ ७ ॥ १ क. ख. 'क्तयुक्त्यु । २ ख. विचिन्वतां । ग. विनिश्चिन्वतां । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy