________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ८]
सूतसंहिता। पुण्डरीकपुरमप्यतिप्रियं
वित्त सर्वसुरसत्तमा मम ॥ मुक्तिमुक्तिकरमाशु देहिनां
भक्तिलभ्यमतिशोभनं सदा ॥ ५१ ॥ विदुषामुपायमभिधाय विद्वदविद्वत्साधारणमुपायमाह-मम स्थान इत्यादि ॥४५॥ ४६ ॥ ४७ ।। ४८ ॥ ४२ ॥ ५० ॥ ५१ ॥
अस्माभिः सुरसत्तमा अभिहितं विज्ञानमत्यद्भुतं युष्माकं मुनिपुंगवैरपि तथा सर्वार्थपारं गतैः ॥ मद्भक्तैरतिशोभनं पुरवरं संसेवनीयं नरैमुक्त्यर्थ परमास्तिकैरिति परा साध्वी श्रुतिर्वक्ति हि ५२ सूत उवाच
एवं महेश्वरः साक्षाच्छ्रीमद्दभ्रसभापतिः॥ देवदेवो जगन्नाथः पशुपाशविमोचकः ॥ ५३ ॥ आम्नायान्तैकसंवेद्यः साक्षी सर्वस्य सर्वदा ॥ अम्बिकासहितः श्रीमान्प्रोवाच ज्ञानमुत्तमम् ॥५४॥ देवाश्च ब्रह्मविज्ञानं वेदान्तोत्थं विमुक्तिदम् ॥ श्रुखा सर्वेश्वरं विप्राः प्रणिपत्य महीतले ॥ ५५॥ लौकिकैवैदिकैः स्तोत्रैः स्तुत्वा भक्त्या सभापतिम् ॥
पूजां प्रचक्रिरे देवाः श्रीमत्पञ्चाक्षरेण वै ॥ ५६ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां मुक्तिखण्डे व्याघ्र
पुरे देवोपदेशकथनं नामाष्टमोऽध्यायः ॥८॥ साध्वी श्रुतिरिति । “स भगवः कस्मिन्प्रतिष्ठित इति वरणायाम्" इत्या. दिकेत्यर्थः ॥ ५२ ॥ ५३ ॥ ५४॥ ५५ ॥ ५६ ॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां मुक्तिखण्डे व्याघ्रपुरे देवोपदेशक
धनं नामाष्टमोऽध्यायः ॥ ८ ॥
For Private And Personal Use Only