________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१६
तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेपूर्वजन्मार्जितात्पुण्यानरो भूत्वा महीतले ॥ मत्प्रसादेन वेदोक्तं कर्म कृत्वा विशुद्धधीः ॥४१॥ विचार्य सर्व दुःखाद्यमनित्यं सारखर्जितम् ॥ विरक्तो मोक्षमाकाङ्क्षन्मोक्षोपायं महत्तरम् ॥ ४२ ॥ वेदेन दर्शितं सम्यक्संपाद्यास्मत्प्रसादतः ॥
आत्ममात्रां परां मुक्तिं प्राप्नोत्यात्मा स्वयं सुराः॥४३॥ इत्थं संसरतो जीवस्यापवर्गप्रक्रियामाह-पूर्वजन्मेत्यादि ॥ ४१ ।। ४२ ॥
सर्वेषामात्मविज्ञानादेव मुक्तिर्न चान्यतः ॥
ज्ञानादन्यत्सुराः सर्व विज्ञानस्यैव साधनम् ॥४४॥ ज्ञानकर्मणोरुभयोरुक्तत्वात्समसमुच्चयनमनिवर्तनाय क्रमसमुच्चय इत्याहसर्वेषामिति ॥ ४४ ॥
तत्र शान्त्यादिकं सर्वमिहैव ज्ञानसाधनम् ॥ मम स्थाने मृतिः शुद्धे वाराणस्यादिके सुराः॥४५॥ अयोग्यानां च योग्यानां नराणां मरणात्परम् ॥ विशुद्धब्रह्मविद्यायाः साधनं सुरसत्तमाः ॥ ४६ ॥ श्रीमत्पञ्चाक्षरो मन्त्री मन्त्राणामुत्तमोत्तमः॥ मार्गाणां वेदमार्गश्च प्राप्यानां मुक्तिरुत्तमा ॥४७॥ देवतानामहं मुख्यः स्थानानां सुरसत्तमाः॥ मम स्थानानि मुख्यानि तेषां वाराणसी तथा ॥४८॥ श्रीकालहस्तिशैलाख्यं श्रीमदृद्धाचलाभिधम् ॥ पुण्डरीकपुरं तद्वच्छ्रोमदल्मीकमुत्तमम् ॥ ४९ ॥ वदारण्यसमाख्यं च स्थान मुख्य सुरोत्तमाः॥ एषां मुख्यतमा ख्याता श्रीमहाराणसी पुरी ॥५०॥ १ ग. घ. ङ. संसारतो। २ ङ. सांख्यादिकं । ३ घ. 'राणामगरात्प।
For Private And Personal Use Only