________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्याय ः ८ ]
सूतसंहिता |
वामभागोर्ध्वपाणिस्थ महादीप्तहुताशनः ॥ कृपयैवाऽऽत्ममायोत्थघोरापस्मारसंस्थितः ॥ २२ ॥
कृपयैवेति । स्वमाययोत्थितो यो घोरोऽपस्मारस्तं पादेनाssकम्प वर्तत इति यत्तदपि तस्मिन्कृपयैव । पादस्पर्शेन स कृतार्थो भवत्वित्येव हेतुनेत्यर्थः ॥ २२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
स्वस्वरूपमहानन्दप्रकाशाप्रच्युतो हरः ॥ प्रसन्नः सर्वविज्ञानमुपदेक्ष्यति स प्रभुः ॥ २३ ॥
सूत उवाच - पुण्डरीकपुरमापुरास्तिकाः श्रद्धयैव सह यत्र नृत्यति ॥ अम्बिकापतिरशेषनायक
श्वन्द्रमौलिरखिलामरा मुदा ॥ २४ ॥
ततः सुराश्रतीव सत्तमा
विलक्षणा भूतिविभूषिताश्विरम् ॥ व्रतानि दानानि तपांसि चाऽऽदरान्मुनीश्वराः सर्वजगत्प्रिये रताः ॥ २५ ॥
For Private And Personal Use Only
३११
पञ्चाक्षरं परममन्त्रमशेषवेदवेदान्तसारमतिशोभनमादरेण ॥ जप्त्वा सुराः प्रणवसंयुतमम्बिकेशं दृष्ट्वा सभापतिमशेषगुरुं प्रणम्य ॥ २६ ॥
यत एवं घोरापस्मारः पादेनाssक्रान्तः । अतएव महानन्दप्रकाशादपच्युतः || २३ || २४ ।। २५ ।। २६ ।।
भक्त्या पूज्य महेश्वराख्यममलं मुक्तिप्रदं भक्तिदं शक्त्या युक्तमतिप्रसन्नवदनं ब्रह्मेन्द्रपूर्वाः सुराः ॥