________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१०
तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेश्रीमत्पञ्चाक्षरं मन्त्रं सतारं सर्वसिद्धिदम् ॥ सर्वमन्त्रवरं नित्यं शतरुद्रीयमध्यगम् ॥ १२॥ जपित्वा लक्षमेकं वा श्रीमद्दभ्रसभापतिम् ॥ दृष्ट्वा पञ्चाक्षरेणैव सतारेणाऽऽस्तिकाः सुराः ॥ १३॥ पूजयध्वं महादेवं युष्माकं करुणाकरः ॥ अम्बिकापतिरानन्दमहाताण्डवपण्डितः ॥ १४ ॥ सर्वाधारवटच्छायानिषण्णो भूतिभूषणः ॥ सोमाधुशेखरः सोमः सोमसूर्याग्निलोचनः ॥ १५॥ कपर्दी कालकण्ठश्रीर्वेदयज्ञोपवीतवान् ॥ गङ्गाधरः सुप्र वः सुस्मितो नागभूषणः ॥ १६ ॥ दीर्घबाहुर्विशालाक्षस्तुन्दबन्धविराजितः ॥
हारकेयूरकटकनूपुरादिविभूषितः ॥ १७ ॥ ॥ १० ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ १७ ॥
भस्माधारधरः श्रीमानककुण्डलमण्डितः ॥ पवित्रपाणिर्भगवान्पुण्डरीकत्वगम्बरः ॥ १८ ॥ क्वणत्किकिणिसंयुक्तकलकाञ्चीविराजितः ॥ सर्वाभरणसंयुक्तः सर्वलक्षणसंयुतः ॥ १९ ॥ गोक्षीरधवलाकारः कुंदेन्दुसदृशप्रभः ॥
संसारभयभीतानामेकेनैवाभयप्रदः ॥२०॥ पुण्डरीकत्वगम्बरो व्याघ्राजिनवसनः ॥ १८ ॥ १९ ॥ २० ॥
अन्येन पाणिना सर्वभक्तप्राणिपरिग्रहः ॥
तदन्यकरसंलग्नसंम्यग्डमरुकध्वनिः ॥२१॥ सर्वान्भक्तान्पाणिनोऽभिमतवरप्रदानेन परिगृह्णात्यनुगृह्णातीति सर्वभक्तपाणिपरिग्रहः । पचाद्यच् ॥ २१ ॥
१ घ. 'महत्ताण्डवमण्डि । २ घ. 'समं डम ।
For Private And Personal Use Only