SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ८] सूतसंहिता। ३०९ तत्सर्व श्रोतुमिच्छामो ब्रूहि नः संग्रहेण तत् ॥ विष्णुरुवाच भवद्भिर्यच्छ्रतं देवास्तद्वितं सर्वदेहिनाम् ॥७॥ तथापि नाहं वक्ष्यामि शिव एवं प्रवक्ष्यति॥ भवन्तः श्रद्धया सार्धं पुण्डरीकपुरोभिधम् ॥८॥ तथा लब्धं शक्याया अपि विद्याया देशिकविशेषनिबन्धनं क्षेत्रविशेपनिबन्धनं चोत्कर्षातिशयं वर्णयितुं पुण्डरीकपुरवासिनं शिवं प्रति जिज्ञासूनां देवानां विष्णुना प्रस्थापनं विवक्षुस्तदर्थं मुनीनां प्रश्नमवतारयति-मुनय ऊचुरिति । एवं महेश्वरादिति ॥ १॥२॥ ३ ॥ ४॥ ५॥ ६॥ ७ ॥८॥ स्वराट्संज्ञस्य देवस्य त्दृत्सरोरुहमध्यगम् ॥ दिने दिनेऽथवा पक्षे पक्षे वा मासि मासि वा॥९॥ स्वराट्संज्ञस्येति । शिवो हि पञ्चीकृतभूतकार्यसमष्टिरूपस्थूलशरीरमभिमन्यमानो विराट् । तद्यापकमपञ्चीकृतभूतकार्यसमष्टिरूपं सप्तदशकं लिङ्गशरीरमभिमन्यमानः स्वराट् । उभयकारणमव्याकृतमभिमन्यमानः सम्राडिति प्रथमखण्ड एकादशाध्याये वर्णितम् । तत्र स्वराट्संज्ञस्य देवस्य हृत्सरोरुहं हृदयपुण्डरीकं तन्मध्ये वर्तमानं पुरं पुण्डरीकपुरम् । “हृद्ययमिति तस्माददयमिति । हृदि शेष आत्मा । अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म" "ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति" इतिश्रुतिस्मृतिपर्यालोचनया यस्मिन्नेव शरीरमदेशे शिवो नित्यं विशेषतः संनिहितः स एव प्रदेशो हृत्पुण्डरीकम् । व्यापकस्य च स्वराद्शरीरस्य मध्ये व्याघपुरे शिवो नित्यं संनिहित इति तदेव स्वराजो हृत्सरोरुहं तन्मध्यगतमित्यर्थः ॥ ९॥ षण्मासान्तेषु वाऽब्दान्तेष्वाशरीरविमोक्षणात् ॥ दृश्यते प्राणिना येन श्रद्धया तस्य मुक्तिदम् ॥१०॥ अचिरात्सर्वपापघ्नं भोगदं भोगकामिनाम् ॥ उपेत्य सुमहत्तीर्थ तपः कृत्वा सुदुश्वरम् ॥ ११॥ १ ङ. राधिपम् । २ घ. 'रणं मायाकृ' । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy