SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३०६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता "भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः । बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणादयः " । [ ३ मुक्तिखण्डे - इत्युक्तदृशा मनुष्यत्वमेव तावद्दुर्लभम् । तत्रापि ब्रह्मविग्रहमिति । ब्रह्म वेदस्वदर्हविग्रहं त्रैवर्णिकत्वं प्राप्येत्यर्थः । वेदान्त श्रवणादिना ब्राह्मण्यं ब्रह्मनिष्ठताम् । "मौनं चामौनं च निर्विद्याथ ब्राह्मणः" इति ब्रह्मनिष्ठता ब्राह्मण्यपदार्थत्वेन श्रुता ॥ ७२ ॥ ७३ ॥ यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ॥ तदाऽ विज्ञाय च शिवं दुःखस्यान्तो भविष्यति ॥ ७४ ॥ ज्ञानव्यतिरेकेण कर्मकोटिभिरपि मुक्तेरभावमाह -- पदेति । अविज्ञायेति च्छेदः ॥ ७४ ॥ बहूनां जन्मनामन्ते महापुण्यवतां नृणाम् ॥ प्रसादादेव मे वाक्याज्ज्ञानं सम्यग्विजायते ॥ ७५ ॥ विद्यानधिकृतानामपि निष्कामानां विद्यावाप्तिद्वारा कर्म कारण मस्तीत्याहबहूनामिति ।। ७५ ।। यस्मिन्देहे दृढं ज्ञानमपरोक्षं विजायते ॥ तद्देहनाशपर्यन्तमेव संसारदर्शनम् ॥ ७६ ॥ नन्वज्ञानी विद्यामुपदेष्टुं न शक्नोति । ज्ञानी तु मुक्तः सन्दृश्यमात्र न पश्यति किमुत शिष्यादीन् । तत्कथं विद्यासंप्रदायप्रवृत्तिः । ज्ञानिनोऽपि वा संसारदर्शने केनेदानीं मुक्तिरित्यत आह- पस्मिन्देह इति । विद्वद्देहारम्भकव्यतिरिक्तकर्मणामेव हि विद्यया निवृत्तिः । आरम्भकाणां तु विदुषो जीवन्मुक्तस्य देहाभासजगदवभासौ जैनयतामास्थाविरहिणा भोगाभासेनैव निवृत्तिः । उक्तं हि व्यासेन - " अनारब्धकार्ये एव तु पूर्वे तदवधेः" इति । " भोगेन त्वितरे क्षपयित्वा संपद्यते " इति च । श्रूयते च - " तस्य तावदेव चिरं यावन्न विमोक्ष्ये, अथ संपत्स्ये " इति । अतो जीवन्मुक्तोऽतिवर्णाश्रमी विद्यासंप्रदायप्रवर्तक इत्यर्थः ॥ ७६ ॥ For Private And Personal Use Only पुराऽपि नास्ति संसारदर्शनं परमार्थतः || कथं तद्दर्शनं देहविनाशादूर्ध्वमंप्युत ॥ ७७ ॥ १ ङ. 'पि तान्संसा' । २ ग. जगता । ३ ग. ङ. 'मच्युत ।
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy