________________
Shri Mahavir Jain Aradhana Kendra
अध्यायः ७ ]
www.kobatirth.org
सूतसंहिता ।
तस्माद्ब्रह्मात्मविज्ञानं ढं चरमविग्रहे ॥ जायते मुक्तिदं शुद्धं प्रसादादेव ॥ ७८ ॥
सूत उवाच -
देहनाशानन्तरं संसारादर्शने कैमुतिकन्यायमाह - पुराऽपीति । पुरा विव ममात्रेण दर्शनं पश्चात्तु तदपि नास्तीत्यर्थः ॥ ७७ ॥ ७८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
इत्येवमुक्त्वा परमेश्वरो हरत्रयीमयोऽभीष्टफलप्रदो नृणाम् ॥ त्रिलोचनोऽम्बासहितः कृपाकरो
न किंचिदप्याह पुनर्द्विजोत्तमाः ॥ ७९ ॥
निशम्य वेदार्थमशेषमच्युतः
प्रणम्य शंभुं शशिशेखरं हरम् ॥
प्रगृह्य पादाम्बुजमास्तिको हरिः
स्वमूर्ध्नि विन्यस्य करद्वयेन सः ॥ ८० ॥ अतिप्रसादेन शिवस्य केशवः
समस्त संसारविवर्जितोऽभवत् ॥ प्रनृत्य देवोऽपि मुकुन्दसंनिधौ पुनः सुरेन्द्रैरखिलैः समावृतः ॥ ८१ ॥ पुण्डरीकपुरमाप शंकर
स्तत्र सर्वगणनायकैः पुनः ॥
पुष्पराशिभिरहर्निशं मुदा
पूजितश्व भगवान्सभापतिः ॥ ८२ ॥ एवं सूतवचः श्रुत्वा मुनयो वेदवित्तमाः ॥ प्रणम्य सूतं सर्वज्ञं सर्वदा करुणाकरम् ॥ ८३ ॥
१ . च नरवि । २ ग. वमच्यु ।
For Private And Personal Use Only
३०७