________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०४
तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेत्वदर्शनेनैव समस्तरोगतो
विमुक्तदेहाऽहमतीव निर्मला ॥ अतश्च मामामरणादतिप्रभो
सुभुक्ष्व दास्यं करवाणि ते सदा ॥ ५७ ॥ इत्येवं प्रार्थितः सम्यक्तया प्रीतो जनार्दनं ॥ प्रारब्धकर्मणा नीतस्तथा चक्रे मतिं बुधः ॥ ५८॥ साऽपि नित्यं महाविष्णो श्रद्धया परया सह ॥ अतीव पूजयामास स्वात्मना च धनेन च ॥ ५९॥ वत्सराणां त्रयं पूजां कृत्वा तस्य महात्मनः॥ सुभगा सा तथा ज्ञानं लब्ध्वा मुक्ताऽभवद्धरे ॥६०॥ तस्याः पुत्राश्च पौत्राश्च सुहृदो बन्धुबान्धवाः॥ दासवर्गाश्च माता च स्वर्गलोकं गता हरे ॥ ६१ ॥ बहवो ब्रह्मविद्वांसं समाराध्य यथाबलम् ॥ तेन ब्रह्मात्मविज्ञानं वेदान्तार्थविमुक्तिदम् ॥ ६२॥ अपरोक्षमवाप्याऽऽशु विमुक्ता भवबन्धनात् ॥ यत्र नित्यं वसेज्ज्ञानी तत्राहं सर्वदा स्थितः॥६३॥ सुदूरमपि गन्तव्यं यत्र माहेश्वरो जनः॥ प्रयत्नेनापि द्रष्टव्यस्तत्राहं सर्वदा स्थितः ॥ ६४ ॥ निमेषं वा तदर्ध वा यत्र ज्ञानी हरे स्थितः ॥ तत्र तीर्थानि सर्वाणि तिष्ठन्त्येव न संशयः॥६५॥ योऽनिष्टं ब्रह्मनिष्ठस्य करोत्यज्ञानतोऽपि वा ॥ विमूढः स ममानिष्टं करोत्येव न संशयः ॥६६॥ ॥ ५६ ॥ ५७ ॥ ५८ ॥ ५९ ॥ ६० ॥ ६१ ॥ ६२ ॥ ६३ ॥ ६४ ॥६५॥
१ ख. 'न ॥ आर'। २ ङ. पूजा कृतात।
For Private And Personal Use Only