________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ७]
सूतसंहिता। पिशाचिकाभिः परिपीडिता पुनः
सदा महाव्याधिभिरप्यतीव सा ॥५१॥ निद्राऽपि नाभूत्पूरुषोत्तमास्याः
कष्टां दशामाप सह स्वकीयैः॥ तस्या गृहं चक्रधरातिविदा__ न्रुत्पीडितो विवशः संप्रपेदे ॥५२॥ अनेकजन्मार्जितपुण्यकर्मणा
विलक्षणं ब्रह्मविदं गृहागतम् ॥ विलोक्य सा भूमितले समाहिता
प्रणम्य तत्पादसरोरुहद्दयम् ॥ ५३॥ स्वान्तर्गृहे शीतलगन्धतोयैः
प्रक्षाल्य पादोदकमादरेण ॥ आदाय पीत्वा सुभगा विमुक्ता
पिशाचिकाभिश्च समस्तरोगैः ॥ ५४॥ ॥ ५१ ॥ ५२ ॥ ५३ ॥ ५४॥
ततः प्रशान्तं सुअगाऽतिविस्मिता ___ महानुभावं परमार्थवेदिनम् ॥ अपूपशाल्योदनपूर्वकैवरः
सुभोजितं चन्दनकुङ्कमादिभिः ॥ ५५ ॥ प्रशान्तं दृष्ट्वा । अतः 'शमोऽदर्शने' इति दर्शनपर्युदासान मित्त्वम् ॥५५॥ वस्त्रैः सुसूक्ष्मैश्च सुगन्धपुष्पै
स्ताम्बूलवल्लीदलपूर्वकैश्च ॥ आराध्य भक्त्या सह सुप्रसन्ना तं प्रार्थयामास परात्मनिष्ठम् ॥ ५६ ॥
१ घ. 'तः प्रपश्यत्सुभ।
For Private And Personal Use Only