________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ७] सूतसंहिता।
२९९ षोडशक्रोशविस्तीर्णे तावन्मात्रायते वरे ॥ शिवशक्तिरुमादेवी यत्र गोपर्वतेश्वरम् ॥ १४ ॥ आराध्य श्रद्धया संज्ञां चकार परमेश्वरी ॥ शक्तीश्वर इति स्वस्य संज्ञया भवनाशिनी ॥ १५॥ यत्र शक्तीश्वरं भक्त्या ब्रह्माऽऽराध्य यथाबलम् ॥ शक्तिमानभवत्सृष्टौ जगतस्तत्प्रसादतः ॥१६॥ यत्र शक्तीश्वरं पूज्य प्रसादेन पुरंदरः ॥ अधिपः सर्वदेवानामभवत्तारकोऽसुरः ॥ १७ ॥ यत्र शक्तीश्वरं पूज्य प्रबलोऽभून्महीतले ॥ उर्वशी यत्र शक्तीशं भक्त्या पूज्येन्द्रवल्लभा ॥१८॥ यत्र वाचस्पतिर्देवं शक्तीशाख्यं यथाबलम् ॥ समाराध्याभवत्साक्षादेवेन्द्रस्य पुरोहितः ॥ १९॥ यत्र पूज्योऽभवच्छुकः शक्तीशाख्यं महेश्वरम् ॥ आर्द्रायां नैर्ऋते साक्षादसुराणां पुरोहितः ॥२०॥ यत्र पर्वणि देवेशं दृष्ट्वा शक्तीश्वराभिधम् ॥ प्रदत्त्वा धनमन्यद्दा नरः साक्षाच्छिवं व्रजेत् ॥२१॥ यत्र पुण्येषु कालेषु श्रद्धया परमेश्वरम् ॥ प्रणम्य शिवभक्तेभ्यः प्रदत्त्वा धनमुत्तमम् ॥२२॥ नरो मुक्तिमवाप्रोति शक्तीशस्य प्रसादतः ॥ यत्र दृष्ट्वा महादेवं शक्तीशाख्यं धनं मुदा ॥२३॥ दत्त्वा भोगानवाप्नोति विजयं चापि मानवः॥ यत्र शक्तीश्वरं नित्यं दृष्ट्वा संकल्पपूर्वकम् ॥ २४ ॥ प्रदत्त्वा मुष्टिमात्रं वा प्रस्थं वा सिक्थमेव वा ॥
तण्डुलं ब्रह्मविद्धस्ते विमुक्तो मानवो भवेत् ॥२५॥ ॥ १४ ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ २१ ॥ २२ ॥२३ ।।
॥ २४ ॥ २५॥
For Private And Personal Use Only