________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेयत्र सर्वमहापापयुक्तोऽपि मरणं गतः ॥ नरो मुक्तिमवाप्नोति शक्तीशस्य प्रसादतः ॥२६॥ यत्र साक्षान्महायोगी सर्ववेदान्तपारगः॥ महाकारुणिको नाना महानन्दपरायणः॥२७॥ आस्ते तं वेदविच्छ्रेष्ठं पाकयज्ञ स्वसूनुना ॥ सह दृष्ट्वा महाभक्त्या प्रणम्य भुवि दण्डवत् ॥२८॥ तस्य शुश्रूषणं नित्यं कुरु तत्तारकं भवेत् ॥ इत्युक्तो देवभक्तेन मुनिना पङ्कजेक्षण ॥ २९ ॥ पाकयज्ञः पिता पुत्रं शशिवर्णसमाह्वयम् ॥ अतीव प्रीतिमापनः श्रीमद्रोपर्वतं गतः ॥३०॥ पुनः शक्तीश्वरं देवं सह पुत्रेण पर्वणि ॥ दृष्ट्वा प्रदक्षिणीकृत्य श्रद्वयाऽष्टोत्तरं शतम् ॥ ३१॥ प्रसादात्तस्य सर्वज्ञं जीवन्मुक्तं जगद्गुरुम् ॥ अतिवर्णाश्रमं धीरं महानन्दपरायणम् ॥ ३२ ॥ दृष्ट्वा दूरे स्वपुत्रेण सह भूमौ मुहुर्मुहुः ॥ प्रणम्य दण्डवद्भक्त्या पाकयज्ञः कृताञ्जलिः॥३३॥ सर्व विज्ञापयामास पुण्डरीकनिभेक्षण ॥ सोऽपि साक्षान्महायोगी महाकारुणिकोत्तमः॥३४॥ स्वात्मानन्दानुसंधानप्रमोदेन सहाच्युत ॥ विलोक्य पुत्रं पापिष्ठं शशिवर्णसमाह्वयम् ॥ ३५ ॥ शिष्यत्वेनाग्रहीविष्णो ब्रह्मविद्याबलेन तु ॥ तस्यावलोकनादेव शशिवर्णस्य कानिचित् ॥३६॥ विनष्टानि च पापानि तत्परिग्रहकारणात् ॥
कानिचित्कल्मषाण्यस्य सोऽपि नीरोगतां गतः॥३७॥ ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥ ३३ ।। ३४ ॥३५॥ ॥ ३६॥ ३७॥
For Private And Personal Use Only