________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९४
तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेधर्माधर्मेश्वरास्तित्व संदेहश्च तथैव च ॥ तेषामभावबुद्धिश्च ज्ञानानुत्पत्तिकारणम् ॥ ७॥ मातृसंरक्षणाभावो मातृद्रोहश्व केशव ॥ मातृसंतापकारित्वं ज्ञानानुत्पत्तिकारणम् ॥ ८॥ वेदवेदान्तविद्वेषस्तध्ययनवर्जनम् ॥ श्रोत्रियस्यापराधश्च ज्ञानानुत्पत्तिकारणम् ॥९॥ वेदाङ्गानां च विद्वेषः स्मृतीनां च तथैव च ॥ पुराणानां च विद्वेषो भारतस्य तथैव च ॥ १० ॥ तेषामध्येतृविद्वेषस्तेषां बाधश्च केशव ॥
तेषामर्थापहारश्च ज्ञानानुत्पत्तिकारणम् ॥११॥ ॥२॥ ३ ॥ ४ ॥ ५॥६॥ ७ ॥ ८ ॥९॥ १० ॥ ११ ॥
वामपाशुपतादीनामश्रीतानां परिग्रहः ॥ पाञ्चरात्राश्रयश्चापि ज्ञानानुत्पत्तिकारणम् ॥ १२ ॥ शिष्टानामसदारोपः शिष्टसंसर्गवर्जनम् ॥ अशिष्टता च मद्भक्तर्ज्ञानानुत्पत्तिकारणम् ॥ १३ ॥ दुर्वृत्तैरपि संसर्गो दुर्वृत्तानां च पोषणम् ॥ दुर्वृत्तत्वं च भूनाथ ज्ञानानुत्पत्तिकारणम् ॥ १४॥ पितृद्रोहश्च शुश्रूषाभावस्तस्य तथैव च ॥ पितृसंतापकारित्वं ज्ञानानुत्पत्तिकारणम् ॥ १५॥ गवां संरक्षणाभावो गवां हिंसा तथैव च ॥ गोप्रचारस्थले बाधो ज्ञानानुत्पत्तिकारणम् ॥ १६॥ प्राणिसंचारमार्गस्य निरोधस्तस्य बाधनम् ॥ तत्र कण्टकनिक्षेपो ज्ञानानुत्पत्तिकारणम् ॥ १७ ॥
१ ङ. भारतस्य पुगणानां ज्ञानानुत्पत्तिकारणम् ।
For Private And Personal Use Only