________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ६]
सूतसंहिता। "निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः ।
उपलक्षणहानेऽपि स्यान्मुक्तिः पाचकादिवत्" इति ॥ एवं तत्त्वदृष्टयाऽतिवर्णाश्रमस्य स्वरूपमुक्तम् । मायादृष्टया तु भोगप्रदत्वं भोक्तृभोग्यरूपता च तस्यैवेत्याह--स एव सर्वमिति ॥ ४४ ।। ४५ ॥ ४६ ॥ ॥४७॥ ४८ ॥ ४९ ॥ ५० ॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां मुक्तिखण्डे मोचकपदकथनं
नाम पञ्चमोऽध्यायः॥५॥
(अथ षष्ठोऽध्यायः)
ईश्वरउवाच
अथातः संप्रवक्ष्यामि ज्ञानानुत्पत्तिकारणम् ॥
शृणु त्वं श्रद्धया युक्तः परिहाराय केशव ॥१॥ यदुपादेयमुक्त्यादिचतुष्टयस्वरूपज्ञानेऽपि प्रतिबन्धकरूपापरिज्ञाने तत्परिहारो न शक्यः । अतस्तदनन्तरं तदभिधानं प्रतिजानीते--अथात इति ॥१॥
शिवद्रोहस्तु विज्ञानानुत्पत्तेर्मूलकारणम् ॥ शिवभक्तापराधश्च शिवज्ञानस्य दूषणम् ॥२॥ त्रिपुण्ड्रोद्भूलनद्वेषस्तदनुष्ठानवर्जनम् ॥ रुद्राक्षधारणाभावो ज्ञानानुत्पत्तिकारणम् ॥ ३॥ तव द्रोहस्त्वदीयानां प्रदेषश्च जनार्दन ॥ त्वदीयधनवाञ्छा च ज्ञानानुत्पत्तिकारणम् ॥ ४॥ ब्रह्मद्रोहस्तदीयानां प्रदेषश्च जनार्दन ॥ तदीयधनवाञ्छा च ज्ञानानुत्पत्तिकारणम् ॥ ५॥ कामः क्रोधश्च लोभश्च मोहो दम्भस्तथैव च ॥ आलस्यमपि मात्सर्य ज्ञानानुत्पत्तिकारणम् ॥६॥
For Private And Personal Use Only