SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९२ तात्पर्यदीपिकासमेता- [ ३ मुक्तिखण्डेस एव सत्यचिद्धनः स एव मुक्तिरुत्तमा ॥ स एव सर्वमुक्तिदः स एव सर्वमच्युत ॥४४॥ इति तव परमार्थः सर्ववेदान्तसिद्धः सकलमुनिवराणां देवतानां नराणाम् ॥ परमपुरुष साक्षान्मुक्तिसिद्धयै मयोक्तः परमकरुणयैव प्रार्थितेन त्वयैव ॥४५॥ सूत उवाच एवं निशम्य भगवान्वासुदेवो जगन्मयः ॥ स्वमूर्ध्नि चरणदंदं शिवस्य परमात्मनः ॥ ४६॥ विन्यस्य ब्रह्मविज्ञानं वेदान्तोक्तं विमुक्तिदम् ॥ लब्ध्वा भूमौ महाभक्त्या विवशो गद्गदस्वरः॥४७॥ प्रणम्य बहुशः श्रीमान्सलिलार्द्रसुलोचनः॥ कृतार्थोऽभवदीशानप्रसादादेव सुव्रताः ॥४८॥ भवन्तोऽपि दिजा एवं श्रद्धया मोचकप्रदम् ॥ विदित्वा तस्य शुश्रूषां कुरुध्वं यत्नतः सदा ॥ ४९ ॥ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥ तस्य प्रोक्ता दिजा ह्याः प्रकाशन्ते महात्मनः॥५०॥ इति श्रीस्कन्दपुराणे मुतसंहितायां मुक्तिखण्डे मोचकप्र दकथनं नाम पञ्चमोऽध्यायः ॥ ५॥ न केवलमस्य मायोपाधिकं जगत्कारणत्वं किंतु मायातीतसच्चिदानन्दैकरसत्वमपीत्याह-स एव सत्येति । ननु मुक्तेरसत्यत्वे तदवाप्तेरपुरुषार्थत्वादन्यत्वे वा कथं स एव सत्यमित्युक्तमित्यत आह-स एवमुक्तिरिति । यद्यपि सालोक्यादिकमपि मुक्तिस्तथाऽपि तन्मायावस्थाविशेष एव । उत्तमा तु मुक्तिः स्वरूपमेव । यदाहुः-"आत्मैवाज्ञानहानिर्वा" इति । अन्यत्रापि १ ग. सर्वमुच्यते । २ ग. तस्यैते कथिता ह्याः। ३ क. घ. इ. 'जा अर्थाः । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy