SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ५] सूतसंहिता। २९१ ज्ञानिन इति । श्रूयते हि-"इष्टापूर्त मन्यमाना वरिष्ठं नान्यच्छ्रेपो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति" इति ॥ ३८॥ न मांसचक्षुषा निष्ठा ब्रह्मविज्ञानिनामियम् ॥ द्रष्टुं शक्या स्वतःसिद्धा विदुषः सैव केशव ॥३९॥ न मांसेति । यतो मायामोहितानां मांसमयं चक्षुर्दर्शनसाधनमियं तु निष्ठा स्वानुभवैकवेद्येत्यर्थः ॥ ३९ ॥ यत्र सुप्ता जना नियं प्रबुद्धस्तत्र संयमी ॥ प्रबुद्धा यत्र ते विद्वान्सुषुप्तस्तत्र केशव ॥४०॥ यत्र सुधा इति । तत्त्वस्वरूपे जना नित्यं सुप्तास्तत्र संयमी नित्यं प्रबुद्धः । यत्र दृश्यप्रपञ्चे लोकाः प्रबुद्धास्तत्र विद्वान्मुषुप्तः । उक्तं हि भगवता-- "या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः" इति ॥४०॥ एवमात्मानमहंबं निर्विकल्पं निरञ्जनम् ॥ नियं शुद्ध निराभासं संविन्मानं परामृतम् ॥ ४ ॥ निर्विकल्पं विक्षेपरहितं निरञ्जनमावरणरहितम् ॥ ४१ ॥ यो विजानाति वेदान्तैः स्वानुभूत्या च निश्चितम् ॥ सोऽतिवर्णाश्रमी नाना स एव गुरुरुत्तमः ॥४२॥ यस्य न शब्दज्ञानमात्रं किंत्वनुभवपर्यन्तमपीत्याह-स्वानुभूत्येति ॥४२॥ स एव वेदवित्तमः स एव मोचकप्रदः ॥ स एव सर्वमोचकः स एव सर्वकारणम् ॥४३॥ वेदवित्तम इति । कर्मज्ञानवन्तोऽपि वेदविदः । वेदवित्तमस्त्वौपनिषदतत्वज्ञानवानेव । यज्जगन्मूलकारणं तत्त्वज्ञानप्रदानेन मोचक ईश्वरो यश्च तमीश्वरं ज्ञापयति मोचकपद आचार्यत्रितयविभागोऽप्यविद्वदृष्टयैव । विदुषस्तु भेदहेतोरज्ञानस्य विनाशात्सोऽपि विभागोऽपि नास्तीत्याह-स एव सर्वमोचक इत्यादि । ४३ ॥ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy