________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९०
तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेसोऽपि नास्तिकः प्रमादालस्यादिभिस्त्यजन्नकरणनिमित्तप्रत्यवायोपचयादधः पतति । अत एव हि मागत्रैवोक्तम्
"वर्णाश्रमाचारवता पुरुषेण महेश्वरः।
आराध्यते प्रसादार्थ न दुर्वृत्तः कदाचन" इति । प्राप्तप्रसादस्त्वतिवर्णाश्रमीति महद्वैषम्यम् ॥ ३१ ॥ ३२ ॥
न देहो नेन्द्रियं प्राणो न मनो बुद्धयहंकृती ॥ न चित्तं नैव माया च न च व्योमादिकं जगत् ॥३३॥ न कर्ता नैव भोक्ता च न च भोजयिता तथा ॥
केवलं चित्सदानन्दं ब्रह्मैवाऽऽत्मा यथार्थतः ॥ ३४॥ उक्तस्यातिवर्णाश्रमस्यानुभवं विशदयति-न देह इत्यादिना ॥३३॥ ३४॥
जलस्य चलनादेव चञ्चलत्वं यथा खेः ॥ तथाऽहङ्कारसंबन्धादेव संसार आत्मनः ॥ ३५॥ तस्मादन्यगता वर्णा आश्रमा अपि केशव ॥
आत्मन्यारोपिता एव भ्रान्त्या ते नाऽऽत्मवेदिनः॥३६॥ तत्त्वविषयं तदीयमनुभवप्रकार मुक्त्वा दृश्यविषयमिदानीमाह-जलस्पेति । आत्मनि कर्तृत्वभोक्तृत्वादिकं पश्यन्नप्यौपाधिकभ्रमकल्पितत्वादसत्त्वेनैव स पश्यतीत्यर्थः ॥ ३५ ॥ ३६॥
न विधिन निषेधश्च न वावय॑कल्पना ॥
आत्मविज्ञानिनामस्ति तथा नान्यजनार्दन ॥ ३७॥ वर्णाश्रमयोः कल्पितत्वेन तदुपजीविनोविधिनिषेधयोस्तदधीनयोर्हानोपादा. नयोश्च तथात्वमित्याह-न विधिरिति । तथा नान्यदिति । लौकिकव्यापारजातमपि ॥ ३७॥
आत्मविज्ञानिनो निष्ठामीश्वरीमम्बुजेक्षण ॥
मायया मोहिता मां नैव जानन्ति सर्वदा ॥ ३८॥ इत्थमियं निष्ठा प्रशस्ता चेत्किमिति सर्वैर्नाऽऽश्रियत इत्यत आह-आत्मवि
1 ङ. समाराधयः । २ घ, "दिभिः ॥३६॥ त। ३ ग. ज्ञाननिष्ठानामीहशीम । घ. ज्ञानिना निष्ठामीदृशीम।
For Private And Personal Use Only