________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ५] सूतसंहिता।
२८७ ग्रहाय वर्णाश्रमधर्मानाचरन्ननाचरन्वा सर्वोत्तमत्वेन गुरुरेवेत्यर्थः । तादृशस्यापि हि तदाचरणं भवति ।
"सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसंग्रहम्" इति ॥ यो वेदान्तेति । "तं त्वौपनिषदम्" इति श्रुतेः ॥ १७ ॥
आत्मानमीश्वरं वेद सोऽतिवर्णाश्रमी भवेत् ॥
योऽवस्थात्रयनिर्मुक्तमवस्थात्रयसाक्षिणम् ॥ १८ ॥ परतत्त्वसाक्षात्कारस्य मनननिदिध्यासनाङ्गनिबन्धनत्वाद्वेदानधिकृतानां भाषादिमुखेन ज्ञानमपि क्रमेण वेदाधिकारमाप्तिद्वारेणैवोपकारकमिति हि प्रागु. कम्
"अन्येषामपि सर्वेषां ज्ञानाभ्यासो विधीयते ।
भाषान्तरेण कालेन तेषां सोऽप्युपकारकः" इति । तमेवाऽऽत्मवेदनक्रममाह-योऽवस्थेति ॥ १८ ॥
महादेवं विजानाति सोऽतिवर्णाश्रमी भवेत् ॥
वर्णाश्रमादयो देहे मायया परिकल्पिताः ॥ १९॥ देह इति । देहसंबन्धोपाधिनिबन्धना आत्मनि कल्पिताः ॥ १९ ॥
नाऽऽत्मनो बोधरूपस्य मम ते सन्ति सर्वदा ॥
इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥२०॥ बोधात्माकल्पनया सन्तोऽपि वस्तुतो न सन्ति । बोधोत्तरकाले त्व-भवतोऽपीति सर्वदेत्युक्तम् ॥ २० ॥
आदित्यसंनिधौ लोकश्चेष्टते स्वयमेव तु ॥
तथा मत्संनिधावेव चेष्टते सकलं जगत् ॥ २१॥ नन्ववस्थात्रयविरहे स्वस्याऽऽत्मनोऽकर्तृत्वादीचरस्य च जगत्कर्तृत्वात्कथमात्मानमीश्वरं वेदेति तत्राऽऽह-आदित्येति । य ईश्वरोऽपि वस्तुतो न कर्ता तस्मिन्नधिष्ठाने सव्यापारस्य जगतः कल्पितत्वादेव तस्य जगत्कर्तृत्वव्यवहारः । यथाऽऽदित्यस्य संनिधौ लोकस्य प्रवृत्तिदर्शनादप्रवर्तकेऽप्यादित्ये प्रवतकत्व व्यवहारस्तद्वत् ॥ २१ ॥
१ ग. घ. कल्पिता । २ घ. पत्वान्मम । ३ क. ग. 'नुभवेऽपी । ङ. 'नुभावेऽपी ।
For Private And Personal Use Only