SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८८ तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेइति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥ सुवर्णे हारकेयूरकटकस्वस्तिकादयः ॥ २२ ॥ कल्पिता मायया तबजगन्मय्येव सर्वदा ॥ इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥२३॥ परस्परव्यावृत्तं चेत्यं सर्वमनुवृत्ते चिद्रूपे कल्पितमित्यत्र निदर्शनमाहमुवर्ण इति । श्रूयते हि-"चिद्धीदं सर्व काशते काशते च" इति ॥२२॥२३॥ शुक्तिकायां यथा तारं कल्पितं मायया तथा ॥ महहादि जगन्मायामयं मय्येव कल्पितम् ॥ २४ ॥ महदादीनामपि सति प्रमातर्यबाध्यत्वे सत्यत्वमिति मन्यमानं प्रति सत्येव प्रमातरि बाध्यमानं शृक्तिरूप्यमुदाहरति-शुक्तिकायामिति ॥ २४ ॥ इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥ चण्डालदेहे पश्चादिशरीरे ब्रह्मविग्रहे ॥२५॥ एकस्मिन्नेव रूपे विचित्रं वस्तु यथा कल्पितं तथा तदुपाधिकं तारतम्यमपीत्यत्र निदर्शनमाह-चण्डालदेह इति ॥ २५ ॥ अन्येषु तारतम्येन स्थितेषु पुरुषोत्तम ॥ व्योमवत्सर्वदा व्याप्तः सर्वसंबन्धवर्जितः ॥२६॥ एकरूपो महादेवः स्थितः सोऽहं परामृतः॥ इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥२७॥ सूचीपाशादिसंबन्धे तदुपाधिकं तारतम्यमाकाशे यथा कल्पितं तद्वदित्यर्थः ॥ २६ ॥ २७॥ विनष्टदिग्भ्रमस्यापि यथापूर्व विभाति दिक् ॥ तथा विज्ञानविध्वस्तं जगन्मे भाति तन्नहि ॥ २८॥ नन्वतिवर्णाश्रमस्य तत्त्वज्ञानेन सकार्यस्याज्ञानस्य निवृत्तौ शिष्यमपश्यतः कं प्रति गुरुत्वं शिष्यप्रतिभाने वा तत्कारणमज्ञानमनुभवन्नासौ विद्वानिति चेन । विदुषोऽपि बाधितानुवृत्तिसंभवादित्यभिप्रेत्य तत्र निदर्शनमाह-विन १ ग. ङ, 'लेन स' । २ ग. घ, ङ. "धिकता । ३ क. ख. ग. 'भवंस्तेनासौ । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy