SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८६ तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेवानप्रस्थाश्रमस्थोऽपि तथा संन्यासिनां हरे॥ विद्योत्कर्षबलेनैव गुरुभवति नान्यथा ॥ १३॥ राज्ञो गुरुत्वं केचिदिति । बृहदारण्यके दृप्तबालाकेाह्मणस्य क्षत्रियमजातशत्रु प्रति स होवाच गार्य उप त्वा यानीत्युपगमाभिधानदर्शनात्तथा कैकेयं क्षत्रियं प्रति प्राचीनशालादीनां षण्णां मुनीनां वैश्वानरविद्यालाभायोपगमप्रवृत्तिदर्शनाते, उत्तमं ब्राह्मणं प्रत्यपि विद्योत्कर्षवतः क्षत्रियस्य गुरुत्वमस्तीति तेषामाशयः। अन्ये तु "प्रतिलोमं वै तद्यह्राह्मणः क्षत्रियमुपेयात्, ब्रह्म मे वक्ष्यतीति । व्येव त्वा ज्ञापयिष्यामि" इति क्षत्रियेणाजातशत्रुणा गुरुत्वमङ्गीकृत्य गाग्यं प्रति विज्ञापनदर्शनात्तथा प्राचीनशालादीनपि कैकेयेन "तान्हानुपनीयैवैतदुवाच" इति उपसदनमन्तरेणैव वैश्वानरविद्याभिधान. दर्शनादुत्तमेनाभिहितमपि गुरुत्वं क्षत्रियाँदिना नाङ्गीकर्तव्यमिति मन्यन्ते । अत उक्तं केचिदिति ॥ ८ ॥ ९॥ १० ॥ ११ ॥ १२ ॥ १३ ॥ अतिवर्णाश्रमी प्रोक्तो गुरुः सर्वाधिकारिणाम् ॥ न कस्यापि भवेच्छिष्यो यथाऽहं पुरुषोत्तम ॥१४॥ अतिवर्णाश्रमी साक्षाद्गुरूणां गुरुरुच्यते ॥ तत्समो नाधिकश्चास्मिल्लोकेऽस्त्येव न संशयः ॥१५॥ ब्रह्मचर्यादीनामाश्रममात्ररूपत्वात्स्वोत्तमं प्रत्यपि विद्योत्कर्षसंभवे गुरुत्वमङ्गीकृतम् । वर्णाश्रमातिक्रमस्तु निरतिशयज्ञानोत्कर्ष एवेति तद्वन्तमपेक्ष्य कस्यापि विद्योत्कर्षाभावात्स गुरुरेव न शिष्य इत्याह-अतिवर्णाश्रमीति ॥ १४ ॥ १५॥ यः शरीरेन्द्रियादिभ्यो विभिन्नं सर्वसाक्षिणम् ॥ पारमार्थिकविज्ञानसुखात्मानं स्वयंप्रभम् ॥ १६ ॥ प्रतिज्ञातं तस्य सर्वोत्कर्षमुपपादयितुं तल्लक्षणमाह-यः शरीरेति ॥१६॥ परतत्त्वं विजानाति सोऽतिवर्णाश्रमी भवेत् ॥ यो वेदान्तमहावाक्यश्रवणेनैव केशव ॥ १७॥ विजानाति विशेषेण जानाति साक्षात्करोतीत्यर्थः । इत्थंभूतो हि लोकसं. १ ङ. त, कैकेयं क्षत्रियमुत्त । २ ङ, अन्यथेति । ३ ग. वेद । ४ ग. इ. 'लादीनामपि । ५ ङ. 'केयान्तान्हा। क. ख. घ. यादीनां ना । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy