________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः२)
सूतसंहिता। तमसोऽत्यन्तमुद्भवेनात्यन्ताभिभूतयोः सत्त्वरजसोरसत्मायत्वात्केवलतमोमपी तृतीयेति । तत्र मन्मायेत्यत्र मच्छब्दोपलक्षितं मायातीतं सचिदानन्दैकरसं परशिवस्वरूपम् । विशुद्धसत्त्वप्रधाना तु माया मायिनं न वशीकरोति । किंतु तस्य वशे वर्तते । तथाच स्वाधीनमायोपाधिविशिष्टं तदेव परशिवस्वरूपमिह मच्छब्देनाभिधीयमानमीश्चरो जगत्कर्ता सर्वज्ञो भोगमद इत्यादिशब्दैरुच्यते । उक्तं हि व्यासेन "फलमत उपपत्तेः" इति । मलिनसत्त्वप्रधाना तु मायिनं वशीकरोति । तद्वशीकृतं च चैतन्यं जीवः संसारी कर्ता भोक्तेत्यादिभिरुच्यते । केवलतमोमयी तु स्वाश्रयमसत्मायं कृत्वा भूतभौतिकजगदात्मकभोग्यरूपेण च विवर्तते । तत्र मच्छब्देनाभिहितो य ईश्वरो भोगप्रदस्तत्परतत्रा माया मन्मायाशक्तिरित्युक्ता । तयैव द्वितीयां दशां प्राप्तयोपाधिभूतया विशिष्टा भोतारो जीवशब्देनोक्ताः । तथैव तृतीयां दशां प्राप्तयोपाधिभूतया विशिष्टं भोग्यं जडं जगदचरमित्युच्यते । इत्थं भोगपदभोतृभोग्यविभागकल्पिकाया मायायाः कल्पितत्वान्मायातीतपरशिवव्यतिरेकेण परमार्थतो न भोव इति । तदुक्तं श्वेताश्वतरोपनिषदि__ "भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत्" इति ।
यावद्ब्रह्म न जानाति तावत्पेरयिता भोगपद ईश्वरः । भोक्ता जीवः । भोग्यं जगदिति विभागः । ब्रह्म मत्वा तु स्थितस्यैतत्रिविधं ब्रह्मैव भवति । अतो मायाशक्तिसंस्कृप्तमित्यर्थः । आगमिका अप्याहुः
"शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् ।
शिवो यजति यज्ञैश्च यः शिवः सोऽहमेव हि" इति । मायातीतः शिव एव स्वमायया भोगदाता भोक्ता भोग्यं च भवति । यदा तु भोक्ता शिवं साक्षात्कुरुते तदा विभागहेतुभूताया मायाया नाशात्स्वयं शिवरूपतामेव प्रतिपद्यत इत्यर्थः । अयमर्थः सर्वोऽग्रे प्रपञ्चेन भविष्यति ॥९॥
मामेवं वेदवाक्येभ्यो जानात्याचार्यपूर्वकम् ।
यः पशुः स विमुच्येत ज्ञानावेदान्तवाक्यजात् ॥१०॥ उक्तमायापरिहारेण शिवस्वरूपप्राप्तावुपायमाह-मामेवमिति । वेदवाक्येभ्य इति । तत्त्वमसीत्यादिभ्यः । स एंव मुख्य उपायः । "तं त्वौपनिषदम्" इति श्रुतेः । आचार्यपूर्वमिति । "आचार्यवान्पुरुषो वेद" इति श्रुतेः । 'यो जाना__१ स्व. 'दिशब्दैरु। २ क. स्त्र. 'त्मभोग्य'। ३ क. ख. जीवाश्वरशन्दे । ४ ङ. जगश्चराचर। ५ ग. भवति । ६ ङ. 'झ चैतत् । ७ . मत्वोपस्थि। ८ ख. मामेव वेद। ९ घ. तशास्त्रजा। १० क. ख घ एव हि मु।
For Private And Personal Use Only