________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
तात्पर्यदीपिकासमेता शिवमाहात्म्यखण्डे ति सोऽज्ञानान्मुच्यते' इति । 'ब्रह्म वेद ब्रह्मैव भवति' इति । 'तमेव विदित्वाऽति मृत्युमेति' । 'तमेवं विद्वानमृत इह भवति नान्यः पन्था विद्यतेऽयनाय' इति च श्रुतेः ॥१०॥
इत्युक्त्वा भगवाजुद्रः स्वं पूर्ण रूपमाविशत् ।
नापश्यन्त ततो रुद्रं देवा विष्णुपुरोगमाः ॥११॥ इत्थं गुरूपदेशादेव ज्ञातव्यं स्वरूपमुपदिश्य तत्साक्षात्कारसाधनानां पाशुपतव्रतपणवपञ्चाक्षरजपादीनां शास्त्रत एव देवैज्ञातुं शक्यत्वेन कर्तव्याभावाच्छिवः स्वप्रतिष्ठोऽभवदित्याह-इत्युक्त्वा भगवाजुद्र इति ॥ ११ ॥
अथर्वशिरसा देवमस्तुवंश्चोर्ध्वबाहवः। अन्यैर्नानाविधैः सूक्तैः श्रीमत्पञ्चाक्षरेण च ॥ १२॥ पुनः साक्षाच्छिवज्ञानसिद्धयर्थ मुनिपुङ्गवाः। अग्निहोत्रसमुत्पन्नं भस्माऽऽदायाऽऽदरेण तु ॥ १३ ॥ निधाय पात्रे शुद्ध तत्पादौ प्रक्षाल्य वारिणा ।
दिराचम्य मुनिश्रेष्ठाः सपवित्राः समाहिताः ॥ १४॥ उपदेशपरितुष्टास्तुष्टुवुरित्याह-अथर्वशिरसा देवांमति । यो वै रुद्र इत्यादिनेत्यर्थः । तदाह श्रुतिः-ततो देवा रुद्रं नापश्यंस्ते देवा रुद्रं ध्यायन्ति । ततो देवा ऊर्ध्वबाहवः स्तुवन्ति यो वै रुद्रः स भगवानित्यादि । अलभ्यलाभनिबन्धनस्य हर्षोत्कर्षस्य लिङमूर्ध्वबाहुत्वम् । अन्यैर्नानाविधैः सूक्तैरिति । शतरुद्रियादिभिः ॥ १२ ॥ १३ ॥ १४ ॥
ओमापः सर्वमित्येतन्मन्त्रमुच्चार्य भक्तितः। ध्यात्वा विष्णुं जलाध्यक्षं गृहीत्वा भस्म वारिणा ॥१५॥ ॐमापः सर्वमिति । 'ॐमापो ज्योती रसोऽ मृतं ब्रह्म भूर्भुवः स्वरोम्' इत्येतन्मत्रमित्यर्थः । सर्वशब्देनार्थद्वारा ज्योतिरादयः शब्दा गृह्यन्ते ॥ १५ ॥
विमृज्य मन्त्रैर्जाबालैरग्निरियादिसप्तभिः ।
समाहितधियः शुद्धाः शिवं ध्यात्वा शिवामापि॥१६॥ अमिरित्यादीति । सप्तभिरिति शब्दपरो निर्देशः । आदिशब्देन जलमिति स्थलमित्यादयो गृह्यन्ते ॥ १६ ॥
१ ख. सुवरोम् । २ क. ख. 'ति भस्म स्थ।
For Private And Personal Use Only