________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ४] सूतसंहिता।
२८३ व्याघ्रचर्माम्बरं शुद्धं योगपट्टावृतं शुभम् ॥ सर्वेषां प्राणिनामात्माज्ञानापस्मारपृष्टतः ॥ ३९॥ विन्यस्तचरणं सम्यग्ज्ञानमुद्राधरं हरम् ॥
सर्वविज्ञानरत्नानां कोशभूतं सुपुस्तकम् ॥ ४०॥ आत्माज्ञानेति । आत्मतत्त्वविषयं यदज्ञानं तस्यैव तत्त्वविद्यापतिबन्धमपस्माररूपेण प्राप्तस्य पृष्ठे वामपादं देधानमित्यर्थः ॥ ३९ ॥ ४० ॥
दधानं सर्वतत्त्वाक्षमालिकां कुण्डिकामपि ॥ स्वात्मभूतपरानन्दपरशक्त्यर्धविग्रहम् ॥४१॥ धर्मरूपषोपेतं धार्मिकैर्वेदपारगैः ॥ मुनिभिः संवृतं मायावटमूलाश्रितं शुभम् ॥ ४२ ॥ ईशानं सर्वविद्यानामीश्वरेश्वरमव्ययम् ॥ उत्पत्त्यादिविनिर्मुक्तमोकारकमलासनम् ॥ ४३ ॥ स्वात्मविद्याप्रदानेन सदा संसारमोचकम् ॥ रुद्रं परमकारुण्यात्सर्वप्राणिहिते रतम् ॥ ४४ ॥ उपासकानां सर्वेषामभीष्टसकलप्रदम् ॥ दक्षिणामूर्तिदेवाख्यं जगत्सर्गादिकारणम् ॥४५॥ समागय महाभक्त्या दण्डवत्पृथिवीतले ॥ प्रणम्य बहुशो देवं समाराध्य यथाबलम् ॥ ४६॥ रुद्र यत्ते मुखं तेन दक्षिणं पाहि मामिति ॥ उक्त्वा पुनः पुनर्देवं पूजयामास भक्तितः ॥४७॥ पुनर्देवो महादेवो दक्षिणामूर्तिरीश्वरः ॥ प्रदत्त्वा स्वात्मविज्ञानं तस्मै विप्राय सुव्रताः॥४८॥ तस्य संसारविच्छेदमकरोदम्बिकापतिः ॥
बहवो दक्षिणामूर्तिप्रसादादेव जन्तवः ॥४९॥ १ क. ख. ग. घ. ददान । २ इ. 'म् ॥ शंकरं दक्षिणामति ज । ३ इ. 'त्वा ब्रह्मवि' ।
For Private And Personal Use Only