________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८४
तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेअनायासेन संसारादिमुक्ताः परमर्षयः॥ भवन्तोऽपि महादेवं महानन्दस्वरूपिणम् ॥ ५० ॥ संसारमोचकं बुवा भजध्वं सर्वभावतः ॥ अस्यैव भजनादेव सर्व सिध्यत्यसंशयम् ॥ ५१ ॥ इति श्रुत्वा विजाः सर्वे श्रद्धया परया सह ॥
प्रणम्य सूतं सर्वज्ञं पूजयामासुरद्रुतम् ॥५२॥ इति श्रीस्कन्दपुराणे मुतसंहितायां मुक्तिखण्डे मोचक
कथनं नाम चतुर्थोऽध्यायः ॥ ४॥ ॥४१॥ ४२ ॥ ४३ ॥ ४४ ॥४५॥ ४६ ॥ ४७ ।। ४८॥ ४९ ॥ ५० ॥ ॥५१॥५२॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां मुक्तिखण्डे मोचककथनं नाम
चतुर्थोऽध्यायः ॥ ४॥
(अथ पञ्चमोऽध्यायः) ईश्वर उवाच
अथातः संप्रवक्ष्यामि तवाहं मोचकप्रदम् ॥
अतीव श्रद्धया सार्ध शृणु पङ्कजलोचन ॥१॥ यत ईश्वरोऽप्याचार्योपदेशादवगत एव मोचको भवति । अतो मोचकाभिधानानन्तरं मोचकपदाचार्य वक्ष्यामीत्याह-अथात इति ॥ १ ॥
आचार्य एव संसारमोचकप्रद उच्यते ॥ आचार्यों नाम वेदान्तविचारणांऽऽप्तवेदनः॥२॥ तमप्यनेकधा विद्धि श्रद्धया पुरुषोत्तम ॥
उत्तमो मध्यमस्तबधमश्वाम्बुजेक्षण ॥३॥ आचार्य एवेति । ईश्वरः संसारमोचक इति यद्यपि श्रुतिस्मृतिपुराणादिभिरपि ज्ञातुं शक्यते तथाऽपि तत्खरूपमाचार्यमुखादेव ज्ञातं फलपर्यन्तं भवतीति
१ ख. माश्चर्य । २ ग. 'गाऽऽत्मवे।
For Private And Personal Use Only