SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ४] सूतसंहिता। २८१ मदन्य इति । स्वयं बद्धाः कथमन्यं मोचयेयुरित्यर्थः । ननु मोच्यत्वं मोचकत्वं च प्रकृतेरेवेति सांख्याः । यदाहुः "रूपैः सप्तभिरेवं बनात्यात्मानमात्मना प्रकृतिः । सैव च पुरुषस्यार्थे विमोचयत्येकरूपेण" इति ॥ तत्राऽऽह-प्रकृतिरिति ॥ २३ ॥ तस्मात्पशूनां सर्वेषामहं संसारमोचकः॥ न मत्तोऽन्यः पुमान्सत्यमित्येषा शाश्वती श्रुतिः ॥२४॥ एवं निशम्य महाक्यं महाविष्णो सरस्वती ॥ पूजयामास मां भक्त्या जगन्माता त्रयीमयी ॥२५॥ त्वमप्यत्यन्तकल्याणो मद्भक्तश्च विशेषतः ॥ खया नास्ति समः कश्चिल्लोके विष्णो महामते ॥२६॥ नित्यमुक्तः शिवस्तद्विलक्षणानां जीवानां भोगमोक्षलक्षणस्वाभिमतपुरुषार्थपापक इति काठके कथितमित्याह-शाश्वती श्रुतिरिति । एवं हि "नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । तमात्मस्थं येऽनु पश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम्" इति ॥२४॥२५॥२६॥ तस्मादेव मया प्रोक्तस्तव संसारमोचकः ॥ वेदमार्गकनिष्ठानां धार्मिकाणाममानिनाम् ॥ २७ ॥ मद्भक्तानां विशुद्धानां द्विजानामम्बुजेक्षण ॥ मयोक्तोऽर्थस्त्वया देयो न देयो यस्य कस्यचित् ॥२८॥ सूत उवाच एवं निशम्य पुरुषोत्तम आदिभूत__ मम्बासहायममलेन्दुकलावतंसम् ॥ सर्वामरैरखिलयोगिभिरर्चनीयं संसा रमोचक इति प्रतिपद्य भक्त्या ॥ २९ ॥ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy