________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८०
तात्पर्यदीपिकासमेता- [४ मुक्तिखण्डेपञ्चरात्रादयो मार्गाः कालेनैवोपकारकाः ॥
तान्त्रिकाणामहं देवि न लभ्योऽव्यवधानतः ॥१८॥ तेषामप्युपकारकत्वे श्रुतिसाम्यमेव त_त्यत आह-तात्रिकाणामिति । अव्यवधानेन न लभ्यः किंतु व्यवधानेनैव ॥ १८ ॥
कालेन देवताप्राप्तिद्वारेणैवाहमास्तिके ॥
लभ्यो वेदैकनिष्ठानामहमव्यवधानतः ॥ १९॥ तदेव व्यवधानमाह-कालेनेति ॥ १९ ॥
तत्रापि कर्मनिभ्यो ज्ञाननिष्प्रस्य संदरि ॥
लभ्यो न ज्ञानिनां लभ्यस्तेषामात्मैव केवलम् ॥२०॥ कर्मनिष्ठेभ्य इति । तेषां कर्मभिः पापक्षये ज्ञाननिष्ठाद्वारेणैव लभ्यः । ज्ञाननिष्टेभ्यो जिज्ञासुभ्यः सकाशाज्ज्ञानिनां विशेषमाह-न ज्ञानिनामिति । तेषामात्मत्वेन लब्धत्वान्न लब्धव्य इत्यर्थः । अन्येषामात्मभूतोऽप्यज्ञाने न व्यवहितवाल्लभ्य एव न तु लब्धः ॥ २० ॥
सर्वेषामात्मभूतोऽहमेव संसारमोचकः॥
न मत्तोऽन्यः पुमानज्ञ इत्येषा शाश्वती श्रुतिः ॥२१॥ व्यवधानाव्यवधानाभ्यां मोचनीयपशुवैचित्र्यवन्मोचकेन वैचियमित्याहसर्वेषामिति ॥ २१ ॥
मामृते साम्बमीशानं मोचकोऽन्यो न विद्यते ॥
अहमप्राप्तसंसारः सर्वज्ञश्च स्वभावतः॥२२॥ तव तर्हि को मोचक इति तत्राऽऽह-अहमप्राप्तेति । तथा च मृगेन्द्रे
"अथानादिमलापेतः सर्वकृत्सर्वदृक्शिवः ॥
पूर्व व्यत्यासितस्याणोः पाशजालमपोहति" इति ॥ २२ ॥ मदन्ये त्वात्मविज्ञानविहीना माययाऽऽकृताः॥
सदा संसारिणो मोच्याः प्रकृतिः केवलं जडा॥२३॥ शिवादन्यस्य मोचकत्वं संसारिणो वा प्रकृतेर्वेति । नाऽऽद्य इत्याह१ इ.त्मतन्त्रेण ल' । २ क. ख. ग. घ. 'चयितव्यप । ३ ख. हि मोचकः क इति ।
For Private And Personal Use Only