________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्याय: ४ ]
सूतसंहिता |
तोमेषां व्यावहारिकमेव प्रामाण्यम् । उपनिषदस्तु वस्तुविषयत्वात्तत्त्वावेदनल
क्षणं प्रामाण्यम् । यदाहुः -
" प्रत्यक्षादिप्रमाणानां प्रामाण्यं व्यावहारिकम् । आश्रित्यायं प्रपञ्चः स्यादलीकोऽपि प्रमाणवान् ॥ अद्वैतागमवाक्यं तु तत्त्वावेदनलक्षणम् । प्रमाणभावं भजतां बाधवैधुर्यहेतुतः " इति । तथा सुंदरपोण्ड्यवार्तिकमपि -
२७९
" देहात्मप्रत्ययो पद्वत्प्रमाणत्वेन संमतः ॥
लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयात्" इति ॥ १२ ॥१३॥ स्मृतयश्व पुराणानि भारतादीनि सुंदरि ॥ वेदमूलान्यतस्तेन विरोधे मूलिनामपि ॥ १४ ॥ स्मृतिपुराणादीनां तु वेदाविरोधेनैव प्रामाण्यमिति प्रथमखण्डस्य प्रथमाध्याये वर्णितम् । अनुमितवेदमूलानां स्मृतिपुराणादीनां यावन्मूलोपलम्भनं प्रत्यक्षश्रुतिविरोधेनाननुष्ठानलक्षणमप्रामाण्यमुक्तम् ॥ १४ ॥
न सिध्यत्येव सुश्रोणि प्रामाण्यं सूक्ष्मदर्शनें ॥ पाञ्चरात्रादिमार्गाणां वेदमूलत्वमास्ति ॥ १५ ॥
पञ्चरात्रादीनां तैः स्वयमेव वेदमूलतानङ्गीकाराद्वेदविरुद्धाने कार्योपदेशाच्च स्मृतिपुराणादिवन्न यावन्मूलोपलम्भं किंतु सर्वथैवाप्रामाण्यमित्याह - पाञ्चरात्रेति ॥ १५ ॥
नहि स्वतन्त्रास्ते तेन भ्रान्तिमूला निरूपणे ॥ तथाऽपि योंऽशो मार्गाणां वेदेन न विरुध्यते ॥ १६ ॥
वेदमूलत्वं नहि किन्तु स्वतन्त्राः । हिशब्दो वेदमूलत्वविरहे तदीयशास्त्रप्रसिद्धिमाह । आपाततः प्रमाणवदाभासेऽपि निरूपणे भ्रान्तिमूला एवेत्यर्थः । वेदाविरुद्धाशे प्रामाण्यं किं न स्यादित्याशङ्क्य तद्भवत्येवाधिकारि विशेषं प्रतीत्याह - तथाऽपि य इति ॥ १६ ॥
For Private And Personal Use Only
सोऽशः प्रमाणमित्युक्तं केषांचिदधिकारिणाम् ॥ अत्यन्तगलितानां तु प्राणिनां वेदमार्गतः ॥ १७ ॥
तानेवाधिकारिण आह - अत्यन्तेति ॥ १७ ॥
१ घ. 'तामेतेषां । २ क. घ. णं यं । ३ घ. पाण्डवा । ४ घने ॥ पच ।