SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७८ तात्पर्यदीपिकासमेता- [४ मुक्तिखण्डे"अशुभक्षयकर्तारं पाशमुक्तिपदायिनम् । यदि योन्यां प्रमुञ्चामि तं प्रपद्ये महेश्वरम् ॥ ८ ॥ ब्रह्माद्याः स्थावरान्ताश्च पशवः परिकीर्तिताः ॥ तेषां पतिरहं देवः स्मृतः पशुपतिर्बुधैः ॥ ९ ॥ पशुपाशविमोचनकर्तारं मोचकं वक्तुं बद्धान्पशूनाह-ब्रह्माद्या इति । कर्मपरिपाकात्माग्भोगप्रदानेन कर्मपरिपाकानन्तरं मोक्षपदानेन च पाति पशूनतः स्वयं पशुपतिरित्याह-तेषां पतिरिति ॥ ९ ॥ मायापाशेन बध्नामि पशूनेतान्सरस्वति ॥ तेषां पशूनां सर्वेषां मोचकोऽहं सुलोचने ॥ १०॥ बन्धनिवर्तकमात्मानमुक्त्वा बन्धकारणमाह-मायेति ॥ १० ॥ मामेव मोचकं प्राह श्रुतिः साध्वी सनातनी॥ श्रुतिर्बलीयसी प्रोक्ता प्रमाणानां सुलोचने ॥११॥ ननु विहितकरणादकरणनिमित्तपापानुदयात्काम्यकर्मीकरणेन च भोगहे. तुपुण्यानुदयात्पूर्व कृतपुण्यपापयोश्च भोगेन प्रक्षयादयत्नसिद्धा विमुक्तिः किं तत्र मोचकेन । यद्यवश्यं मोचकेन भवितव्यं तथाऽपि शिव एवेति कुतः। अन्योऽपि हि यः कश्चिद्भूयात्स्वयमेवेति तत्र कुत्तो निश्चय इत्यत आह-मामेवेति । श्रुतिस्त्व शुभक्षयेत्यादिका समनन्तरोदाहृता गर्नोपनिषत् । आप्तवचनादिभ्यः श्रुतेः प्राबल्ये विशेषमाह-श्रुतिर्बलीयसीति । ज्ञानस्य स्वतःप्रामाण्यान स्वतःश्रुतेरनादित्वेन कारणाभावान्न कारणदोषादप्यप्रामाण्यमित्यर्थः ।। ११ ।। स्वतश्च परतो दोषो नहि तस्याः कदाचन ॥ अन्येषामक्षजादीनां प्रमाणानामविद्यया ॥ १२॥ दोषसंभावनाऽस्त्येव ततस्तेषां सुलोचने ॥ विरोधे वेदवाक्येन प्रामाण्यं नैव सिध्यति ॥ १३ ॥ श्रुतिव्यतिरिक्तेषु प्रत्यक्षादिषु कारणदोषसंभवश्चेत्कथं तर्हि तत्र प्रामाण्यव्यवहार इत्यत आह-अन्येषामिति । अविद्याकार्यत्वेनावस्त्वेव विषयीकुर्व १ ख. ग. ङ. 'मात्मज्ञानमु। २ ङ, दान्निर्मुक्तिः । ३ घ. 'दिभ्योऽत्र श्रु'। ४ घ दित्वात् । न का । ५ ग. ङ, नास्ति । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy