________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ३ ]
सूतसंहिता ।
अवाप सर्वसंसारकारणाज्ञाननाशकम् ॥ वरुणो वेदतीर्थेऽस्मिन्पर्वणि श्रद्धया सह ॥ ८७ ॥ स्नानं कृत्वा महादेवं श्रीवेदारण्यनायकम् ॥ समाराध्य प्रसादेन प्राप्तवानात्मदर्शनम् ॥ ८८ ॥ तस्य पुत्रो भृगुस्तस्मिंस्तीर्थे खात्वा महत्तरे || वेदारण्याधिपं देवं वेदवेदान्तनायकम् ॥ ८९ ॥ ear प्रदक्षिणीकृत्य श्रद्वयाऽऽराध्य शंकरम् ॥ प्रसादात्तस्य विज्ञानं ब्रह्मात्मैक्यप्रकाशकम् ॥ ९० ॥ अपरोक्षं पितुर्लेभे वरुणादृषिसत्तमः ॥ त्रिशङ्कुर्वेदतीर्थेऽस्मिञ्श्रद्धया सह पर्वणि ॥ ९१ ॥ नानं कृत्वा महादेवं वेदारण्याधिपं हरम् ॥ प्रदक्षिणत्रयं कृत्वा प्रणम्य वसुधातले ॥ ९२ ॥ लेभे परमविज्ञानं सुदृढं सर्वदुःखनुत् ॥ बहवो वेदतीर्थेऽस्मिन्वेदारण्येऽतिशोभने ॥ ९३ ॥ स्नानं कृत्वाऽम्बिकानाथं श्रीवेदारण्यनायकम् ॥ दृष्ट्वा प्रदक्षिणीकृत्य ब्रह्मविज्ञानमच्युत ॥ ९४ ॥ अवापुर्वेदजं तस्य प्रसादादेव मुक्तिदम् ॥ अत्र भूमिप्रदः साक्षाद्रुद्रलोके महीयते ॥ ९५ ॥ आवासभूमिदो रौद्रं पदमानोत्यसंशयम् ॥ धनधान्यप्रदो मर्त्यो धनदेन समो भवेत् ॥ ९६ ॥ अन्नदानपरः श्रीमानरोगी भवति ध्रुवम् ॥ तिलदानान्महापापान्मुच्यते नात्र संशयः ॥ ९७ ॥ कन्यादानप्रदानेन पार्वतीलोकमामुयात् ॥ वस्त्रदानेन देवेन्द्रो भवत्येव न संशयः ॥ ९८ ॥
१ ग. "क्यप्रसादक" | ङ. "क्यप्रसादतः ॥ ९० ॥ अ' । २ क. स्व. ग. घ. णादाशु स ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
२७५